________________
-
कल्याणमन्दिरस्तोत्रम् .. १५७ किं नाम नो विषविकारमपाकरोति ॥१७॥ त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काचकामलिभिरीश सितोऽपि शंखो नो गृह्यते विविधवर्णविपर्य-येण॥१८॥धर्मोपदेशसमये सविधानुभावादास्तां जनो भवति ते तरुरप्यशोकः। अभ्युद्गते दिनपतौ समहीरुहोऽपि किंवा विबोधमुपयाति न जीवलोकः ॥१९॥ चित्र विभो कथमवाङ्मुखवृतमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छंति नूनमध एव हि बंधनानि