________________
'भक्तापरस्तोत्रम् रिहासंघाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्मां । यत्कोकिलः किल मघौ.मधुरं विरोति, तच्चाम्रचारकलिकानिकरैकहेतु ॥ ६॥ त्वत्संस्तवेन भवसंततिसन्निवद्धं. पापं. क्षणात्क्षयमुपैति शरीरभाजां । आक्रांतलोकमलिनीलमशेषमाशु, सूर्यांशुभिन्नमिव.शावरमंधकारं ॥८॥मत्वेति नाथ तव संस्तवनं मयेदमारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिमुपैति ननूदबिंदुः॥८॥आस्तां तवस्तवनमस्तसमस्तदोष, त्वत्संकथापिजगतांदुरितानिहंति।