________________
१३
-
श्रोजिनसहस्रनामस्तोत्रम् स्थविष्ठः स्थविरो ज्येष्ठः पृष्ठः प्रेष्ठो वरिष्ठधीः। स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठो निष्ठो गरिष्ठगीः॥१॥ विश्वभृद्विश्वसृद् विश्वेद विश्वभुग्विश्वनायकः। विश्वाशीविश्वरूपात्मा विश्वजिद्विजितांतकः ॥२॥ विभवो विभयो वीरो विशोको 'विजरो जरन् । विरागो विरतोऽसंगो विविक्तो वीतमत्सरः ॥३॥ विनयेजनताबंधुर्विलीनाशेषकल्मषः। वियोगो योगविद्विद्वान्विधाता सुविधिः सुधीः ॥४॥क्षांतिभाक्पृथिवीमूर्तिःशांतिभाक्सलिलात्मकः। वायुमूर्तिरसंगात्मा वह्निमूर्ति