________________
भावनाद्वात्रिंशतिका
"
कोडीकृताशेषशरीरवर्गाः, रागादयो यस्य न सन्ति दोषाः । निरिन्द्रियो ज्ञानमयोऽनपायः स देवदेवो हृदये ममास्ताम् ॥ १६॥ यो व्यापको विश्वजनीनवृत्तेः सिद्धो विबुद्धो घुतकर्मबन्धः । ध्यातो धुनीते सकलं विकारं, स देवदेवो हृदये ममास्ताम् ॥१७॥ न स्पृश्यते कर्म कलंकदोषैः, यो ध्वान्तसंघैरिव तिग्मरश्मिः । निरंजनं नित्यमनेकमेकं तं देवमाप्तं शरणं प्रपद्ये ॥ १८ ॥ विभासते यत्र मरीचिमाली, न विद्यमाने भुवनावभासी । स्वात्मस्थितं बोघमयप्रकाशं तं देवमातं शरणं प्रपद्ये ॥ १९ ॥
१५६] ..
>