________________
-
भावनाद्वात्रिंशतिका . . ५५ यः स्मर्यते सर्वमुनींद्रबुंदैः यः स्तूयते सर्वनरामरेंद्रैः। यो गीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम् ॥१२॥ यो दर्शनज्ञानसुखखभावः समस्तसंसारविकारवाहः। समाधिगम्यः परमात्मसंज्ञः, स देवदेवो हृदये ममास्ताम्॥१३॥ निषूदते यो भवदुःखजालं, निरीक्षते यो जगदंतरालं। योऽतर्गतो योगिनिरीक्षणीयः,स देवदेवो हृदये ममास्ताम् ।। विमुक्तिमार्गप्रतिपादको यो, यो जन्ममृत्युव्यसनाद्व्यतीतः। त्रिलोकलोकी विकलोऽकलंकः, स देवदेवो हृदये ममास्ताम् ॥