________________
११२]
कलंकस्तोत्रम्
कारवशीकृतेन मनसा न द्वेषिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्धया मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायोविदग्धात्मनो बौद्धौघान्सकलान् विजित्य स घटः पादेन विस्फालितः ॥ १३ ॥ खट्वांगं नैव हस्ते न च हृदि रचिता लम्बते मुंडमाला भस्मांगं नैव शूलं न च गिरिदुहिता नैव हस्तेकपालं । चन्द्रार्द्ध नैव मूर्द्धन्यपि वृषगमनं नैव कंठे फणीन्द्रः तं बन्दे त्यक्तदोषं भवभयमथनं चेश्वरं देवदेवं ॥ १४ ॥ किं वाद्यो भगवानमेयमहिमा देवोऽकलंकः कलौ काले