________________
मन पूजा पाठ सप्रह
-
[उपरितनमन्त्रमुच्चार्य जलेनाभिषिञ्चे इत्यस्मिन्स्थाने सवौषधिषि
रभिपिरचे इति पठित्वा सवौषधिभिरभिषेकं कुर्यात् ।] द्रव्यैरनल्प-धनसार-चतु:समायै
रामोद-वासित-समस्त-दिगन्तरालैः । मिश्रीकृतेन पयसा जिनपुङ गवानां
__त्रैलोक्य-पावनमहं स्नपनं करोमि ॥१८॥ [जलेनाभिषिच्चे इति स्थाने सुगन्धजलेनेति पठित्वा स्नपन कुर्यात् ] इष्टैमनोरथ-शतैरिव भव्यपुंसां
पूर्णैः सुवर्ण-कलशैनिखिलैर्वसानैः । संसार-सागर-विलंघन हेतु-सेतु
माप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् ॥१६॥ [ उपरितनमन्त्रेणैव समस्तकलशैरभिषेक कुर्यात् ] मुक्ति-श्री-वनिता-करोदकमिदं पुण्याङ्कुरोत्पादक
नागेन्द्र-त्रिदशेन्द्र-चक्र-पदवी-राज्याभिषेकोदकम् । सम्यग्ज्ञान-चरित्र-दर्शनलता-संवृद्धि-संपादक कीर्ति-श्री-जय-साधकं तव जिन स्नानस्य गन्धोदकम् ॥२०॥ [लोकमिमं पठित्वा गन्धोदक गृह्णीयात् ] इति श्रीलञ्चमिपेकविधि समाप्त ।