________________
१२
जैन पूजा पाठ सग्रह
संपूर्ण-शारद-शशाङ्क- मरीचि -जालस्यन्दैरिवात्मयशसामिव सुप्रवाहैः ।
चीरैर्जिनाः शुचितरैरभिषिच्यमानाः
संपादयन्तु मम चिर - समीहितानि ॥ १४ ॥
[ उपरितन मन्त्र पठित्वा जलेनाभिपिचे इत्यस्मिन्स्थाने तीरेणाभिपिल्वे इत्युच्चार्य,क्षीराभिषेक कुर्यात् । ] दुग्धान्धि-वीचि पयसाचित-फेनराशिपाण्डुत्व - कान्तिमवधीरयतामतीव ।
दनां गता जिनपतेः प्रतिमा सुधारा
संपद्यतां सपदि वाञ्छित-सिद्धये नः ॥१५॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपिवे इत्यस्मिन्स्थाने दध्नाभिषिचे इति पठित्वा दध्यभिषेक कुर्यात् । ] भक्त्या ललाट-तटदेश- निवेशितोच्चै
र्हस्तैश्च्युता सुरवरासुर मर्त्यनाथैः । तत्काल-पीलित- महेतु-रसस्य धारा
सद्यः पुनातु जिन- विम्ब - गतैव युष्मान् ॥ १६ ॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपि इत्यस्मिन्स्थाने इतुरसेनाभिपिञ्चे इति पठित्वा इक्षुरसाभिषेक कुर्यात् । ] संस्नापितस्य धृत-दुग्ध-दधीक्षुवा है:
सर्वाभिरौपधिभिरर्हत उज्ज्वलाभिः ।
उद्वर्तितस्य विदधाम्यभिषेकमेला
कालेय-कुंकुम-रसोत्कट-वारि- पूरैः ॥ १७॥