________________
जेन पूजा पाठ सप्रह
७ ॐ आं क्रौं ह्रीं कुवेर आगच्छ आगच्छ कुबेराय स्वाहा । ८ ॐआं क्रौं ह्रीं ऐशान आगच्छ आगच्छ ऐशानाय स्वाहा। ६ ॐआं क्रौं हीधरणीन्द्र आगच्छ आ० धरणीन्द्राय स्वाहा।। १० ॐ आं क्रौं ही सोम आगच्छ आगच्छ सोमाय स्वाहा ।
इति टिक्पालमन्त्रा. दध्युज्ज्वलाक्षत-मनोहर-पुष्प-दीपैः
पात्रार्पितं प्रतिदिनं महतादरेण । त्रैलोक्य-मङ्गल-सुखालय-कामदाह
मारार्तिकं तव विभोरवतारयामि । [पात्रापितैर्दघितण्डलपुष्पदीपैर्जिनत्यारार्तिकावतरणम् ]
यं पाण्डुकामल-शिलागतमादिदेव
मस्नापयन्सुरवराः सुरशैलमूर्ति । कल्याणमीप्सुरहमक्षत-तोय-पुष्पैः
संभावयामि पुर एव तदीय-विम्बम् ॥ [जलाक्षतपुष्पाणि निक्षिप्य श्रीवर्णे प्रतिमास्थापनम् ] सत्पल्लवार्चित-मुखान्कलधौतरौप्य
ताम्रारकूट-घटितान्पयसा सुपूर्णान् । संवाह्यतामिव गतांश्चतुरः समुद्रान्
संस्थापयामि कलशाजिनवेदिकान्ते ॥१०॥ [आम्रादिपल्लवशोभितमुखाश्चतु कलशान् पीठचतुःकोणेषु स्थापयेत् ।