________________
३४
रायचन्द्र जैनश | रूखमालायाम्
स्थितत्वेन । स खलु स्वकं चरति जीवः । यतो हि दृशिज्ञप्तिस्वरूपे पुरुष तन्मात्रत्वेन वर्तनं स्वरितमिति ॥
[१५९ ] शुद्धस्वचरितप्रवृत्तिपथप्रतिपादनमेतत् । यो हि योगीन्द्रः समस्तमोहव्यूह बहिर्भूतत्वात्परद्रव्यस्वभावभावरहितात्मा सन् स्वद्रव्यमेवाभिमुख्येनानुवर्तमानः स्वस्वभावभूतं दर्शनज्ञानविकल्पमप्यात्मनोऽविकल्पत्वेन चरति, स खलु स्वकं चरितं चरति । एवं हि शुद्धद्रव्याश्रितमभिन्नसाध्यसाधनभावं निश्चयनयमाश्रित्य मोक्षमार्गप्ररूपणम् ॥
[ १६० - १६१] यत्तु पूर्वमुद्दिष्टं तत्स्वपरप्रत्ययपर्यायाश्रितं भिन्नसाध्यसाधनभावं व्यवहारनयमाश्रित्य प्ररूपितम् । न चैतद्विप्रतिषिद्धनिश्चयव्यवहारयोः साध्यसाधनभावत्वात्नुवर्णसुर्वणपाषाणवत् । अत एवोभयनयायत्ता पारमेश्वरी तीर्थप्रवर्तनेति ॥
[ १६२] निश्चयमोक्षमार्गसाधनभावेन पूर्वोद्दिष्टव्यवहारमोक्षमार्गनिर्देशोऽयम् । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । तत्र धर्मादीनां द्रव्यपदार्थविकल्पवतां तत्त्वार्थश्रद्धानभावस्वभावं भावान्तरं श्रद्धानाख्यं सम्यक्त्वं तत्त्वार्थश्रद्धाननिर्वृत्तौ सत्यामङ्गपूर्वगतार्थपरिच्छित्तिर्ज्ञानम् । आचारादिसूत्रप्रपञ्चितविचित्रयतिवृत्तसमस्त समुदयरूपे तपसि चेष्टा च । इत्येषः स्वपरप्रत्ययपाश्रितं भिन्नसाध्यसाधनभावं व्यवहारनयमाश्रित्यानुगम्यमानो मोक्षमार्गः । कार्तस्वरपाषाणार्पितदीप्तजातवेदोवत्समाहितान्तरङ्गस्य प्रतिपदमुपरितनशुद्धभूमिकासु परमरम्यासु विश्रान्तिमभिन्नां निष्पादयन्, जात्यकार्तस्वरस्येव शुद्धजीवस्य कथंचिद्भिन्नसाध्यसाधनभावाभावात्स्वयंसिद्धस्वभावेन विपरिणममानस्य निश्चयमोक्षमार्गस्य साधनभावमापद्यत इति ॥
[ १६३ ] व्यवहारमोक्षमार्गसाध्यभावेन निश्चयमोक्षमार्गपन्यासोऽयम् । सम्यदर्शनज्ञानचा - रित्रसमाहित आत्मैव जीवस्वभावनियतचरित्रत्वान्निश्चयेन मोक्षमार्गः । अथ खलु कथञ्चनानाद्यवि - द्याव्यपगमाद्यवहारमोक्षमार्गमनुपपन्नो धर्मादितत्त्वार्थाश्रद्धानाङ्ग पूर्वगताथीज्ञानातपश्चेष्टानां धर्मादितत्त्वार्थश्रद्धानाङ्गपूर्व गतार्थज्ञान तपश्चेष्टानाश्च त्यागोपादानाय प्रारब्धविविक्तभावव्यापारः, कुतश्चिदुपादे - यत्यागे त्याज्योपादाने च पुनः प्रवर्तितप्रतिविधानाभिप्रायो यस्मिन्यावतिकाले विशिष्टभावनासौष्ठववशात्सम्यग्दर्शनज्ञानचारित्रैः स्वभावभूतैः सममङ्गाङ्गिभावपरिणत्या तत्समाहितो भूत्वा त्यागोपादानविकल्पशून्यत्वाद्विश्रान्तभावव्यापारः सुनिःप्रकम्पः अयमात्मावतिष्ठते । तस्मिन् तावति काले अयमेवात्मा जीवस्त्रभावनियतचरितत्वान्निश्चयेन मोक्षमार्ग इत्युच्यते । अतो निश्चयव्यवहारमोक्षमार्गयोः साध्यसाधनभावो नितरामुपपन्नः ॥
[ १६४ ] आत्मनश्चारित्रज्ञानदर्शनत्वद्योतनमेतत् । यः खल्वात्मानमात्ममयत्वादनन्यमयमात्मना चरति । स्वभावनियतास्तित्वेनानुवर्त्तते । आत्मना जानाति । स्वप्रकाशकत्वेन चेतयते । आत्मना पश्यति । याथातथ्येनावलोकयते । स खल्वात्मैव चारित्रं ज्ञानं दर्शनमिति । कर्तृकर्मकरणानामभेदान्निश्चितो भवति । अतश्चारित्र - ज्ञानदर्शन रूपत्वाज्जीवस्वभावनियतचरितत्व - लक्षणं निश्चयमोक्षमार्गत्वमात्मनो नितरामुपपन्न इति ॥
[ १६५ ] सर्वस्यात्मनः संसारिणो मोक्षमार्गहत्वनिरासोऽयम् । इह हि स्वभावप्रातिकूल्या भावहेतुकं सौख्यं | आत्मनो हि दृग्- ज्ञप्ती स्वभावरतयोर्विषयप्रतिबन्धः प्रातिकूल्यं । मोक्षे खल्वात्मनः सर्व
१ सन्मुखीभूला २ पुनः तदग्रे प्रतिपाद्यते.