________________
पञ्चास्तिकायसमयसारस्य टीका। किन्तु संबियत एव । तदत्र मोहरागद्वेषपरिणामनिरोधो भावसंवरः । तन्निमित्तः शुभाशुभकर्मपरिणामनिरोधो योगद्वारेण प्रविशतां पुद्गलानां द्रव्यसंवर इति ॥
[१४३ ] विशेषेण संवरस्वरूपाख्यानमेतत् । यस्य योगिनो विरतस्य सर्वतो निवृत्तस्य योगे वाकानःकायकर्माणि शुभपरिणामरूपं पुण्यमशुभपरिणामरूपं पापञ्च यदा न भवति तस्य तदा शुभाशुभभावकृतस्य द्रव्यकर्मणः संवरः स्वकारणभावात्प्रसिध्यति । तत्र शुभाशुभपरिणामनिरोधो भावपुण्यपापसंवरो द्रव्यपुण्यपापसंवरस्य हेतुः प्रधानोऽवधारणीय इति ॥
इति संवरपदार्थज्ञानं समाप्तम् ।
अथ निर्जरापदार्थव्याख्यानम् । [ १४४ ] निर्जरास्वरूपाख्यानमेतत् । शुभाशुभपरिणामनिरोधः संवरः । शुद्धोपयोगः । ताभ्यां युक्तस्तपोभिरनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्याशनकायक्लेशादिभेदावहिरङ्गैः प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गाध्यानभेदादन्तरङ्गैश्च बहुविधैर्यश्चेष्टते स खलु बहूनां कर्मणां निर्जरणं करोति । तदत्र कर्मवीर्य्यशातनसमर्थों बहिरङ्गान्तरङ्गतपोभिर्वहितः शुद्धोपयोगो भावनिर्जरा | तदनुभावनीरसीभूतानामेकदेशसंक्षयः समुपात्तकर्मपुद्गलानां द्रव्यनिर्जरेति ॥
[ १४५ ] मुख्यनिर्जराकारणोपन्यासोऽयम् । यो हि संवरेण शुभाशुभपरिणामपरमनिरोधेन युक्तः परिज्ञातवस्तुस्वरूपः परप्रयोजनेभ्यो व्यावृत्तबुद्धिः केवलं स्वप्रयोजनसाधनोद्यतमनाः आत्मानं स्वोपलम्भेनोपलभ्य गुणगुणिनोर्वस्तुत्वेनाभेदात्तमेव ज्ञानं स्वं स्वेनाविचलितमनास्संचेतयते स खलु नितान्तनिस्नेहः ग्रहीणस्नेहाभ्यङ्गपरिष्वङ्गशुद्धस्फटिकस्तम्भवत् पूर्वोपात्तं कर्मरजः संधुनोति । एतेन निर्जरामुख्यत्वे हेतुत्वं ध्यानस्य द्योतितमिति ॥
[ १४६ ] ध्यानस्वरूपाभिधानमेतत् । शुद्धस्वरूपे विचलितचैतन्यवृत्तिर्हि ध्यानम् । अथास्यात्मलाभविधिरभिधीयते । यदा खलु योगी दर्शनचारित्रमोहनीयविपाकपुद्गलकर्मत्वात् कर्मसु संहृत्य, तदुनुवृत्तेः व्यावृत्त्योपयोगममुह्यन्तमरज्यन्तमद्विषन्तं चात्यन्तशुद्ध एवात्मनि निष्कम्पं निवेशयति, तदास्य निष्क्रियचैतन्यरूपविश्रान्तस्य वाङ्मनःकायानभावयतः स्वकर्मस्वव्यापारयतः सकलशुभाशुभकर्मन्धनदहनसमर्थत्वात् अग्निकल्पं, परमपुरुषार्थसिद्धयुपायभूतं ध्यानं जायते इति । तथा चोक्तम् :
"अज्जवि तिरियण शुद्धा, अप्पा झाए वि लहइ इंदत्तं । लोयंति य देवत्तं तत्थ चुया णिव्वुदि जंति ॥१॥ अंतो णत्थि सुईणं कालो थोओ वयं च दुम्मेहा। तण्णवरिसिक्खियव्वं जं जरमरणं खई कृणइ" ॥२॥
इति निर्जरापदार्थव्याख्यानं समाप्तम् । १ संवरो भवति. २ ज्ञानादि आत्मनः गुणाः, आत्मा गुणी तयोः. ३ अतिशयेन रागद्वेपमोहरहितः. ४ निराकरोति. ५ कथनेन..
६ आर्या अपि तिर्यश्चः, शुद्धात्मध्यानेऽपि लभन्ते इन्द्रलम् ।
लोकन्ते च देवत्वं, तत्र च्युता निवृति यान्ति ॥ १॥ इति च्छाया । ७ अन्तो नान्ति श्रुतीनां, कालः स्तोको वयं च दुर्मेधाः । तत् परिशिक्षितव्यं, यत् जरामरणक्षयं करोति ॥ २॥ इति च्याया।