________________
२४
रायचन्द्रजैनशास्त्रमालायाम् [१०२] कालस द्रव्यास्तिकायत्वविधिप्रतिषेधविधानमेतत् । यथा खलु जीवपुद्गलधर्माधर्माकाशानि सकलद्रव्यलक्षणसद्भावाद्व्यव्यपदेशभाजि भवन्ति, तथा कालोऽपि । इत्येवं षड्द्रव्याणि । किंतु यथा जीवपुद्गलधर्माधर्माकाशानां द्वयादिप्रदेशलक्षणत्वमस्ति अस्तिकायत्वं । न तथा लोकाकाशप्रदेशसंख्यानामपि कालाणूनामेकप्रदेशत्वादस्त्यस्तिकायत्वम् । अत एव च पञ्चास्तिकायप्रकरणे न हीह मुख्यत्वेनोपन्यस्तः कालः । जीवपुद्गलपरिणामावच्छिद्यमानपव्यत्वेन तत्परिणामान्यथानुपपत्त्याऽनुमीयमानद्रव्यत्वेनात्रैवान्तर्भावितः ॥
इति कालद्रव्यव्याख्यानं समाप्तम् ।
[१०३ ] तदवबोधफलपुरस्सरः पञ्चास्तिकायव्याख्योपसंहारोऽयम् । न खलु कालकलितपञ्चास्तिकायेभ्योऽन्यत् किमपि सकलेनाऽपि प्रवचनेन प्रतिपाद्यते । ततः प्रवचनसार एवायं पञ्चास्तिकायसंग्रहः । यो हि नामाऽमुं समस्तवस्तुतत्वाभिधायिनमर्थतोऽथितैयाऽवबुध्यात्रैव जीवास्तिकायान्तर्गतमात्मानं स्वरूपेणात्यन्तविशुद्धचैतन्यस्वभावं निश्चित्य परस्परकार्यकारणीभूतानादिरागद्वेषपरिणामकर्मबन्धसंततिसमारोपितस्वरूपविकारं तदात्वेऽनुभूयमानमवलोक्य तत्कालोन्मीलितविवेकज्योतिः कर्मवन्धसंततिप्रवर्तिकां रागद्वेषपरिणतिमत्थस्यति स खलु जीयमाणस्नेहो जघैन्यस्नेहगुणाभिमुखपरमाणुबवाविवन्धपराङ्मुखः पूर्वबन्धात्प्रच्यवमानः शिखितप्तोदकदौथ्यानुकारिणो दुःखस्य परिमोक्षं विगाहत इति ॥
[१०४ ] दुःखविमोक्षकरणक्रमाख्यानमेतत् । एतस्य शास्त्रस्यार्थभूतं शुद्धचैतन्यस्वभावमात्मानं कश्चिज्जीवस्तावज्जानीते । ततस्तमेवानुगन्तुमुद्यमते । ततोऽस्य क्षीयते 'दृष्टिमोहः । ततः स्वरूपपरिचयादुन्मज्जति ज्ञानज्योतिः । ततो रागद्वेषौ प्रशाम्यतः । ततः उत्तरः पूर्वश्च बन्धो विनश्यति । ततः पुनर्वन्धहेतुत्वाभावात् स्वरूपस्थो नित्यं प्रतपतीति ॥
इति समयव्याख्यायामन्तींतषद्रव्यपञ्चास्तिकायवर्णनात्मकः प्रथमः श्रुतस्कन्धः समाप्तः ।
द्रव्यखरूपप्रतिपादनेन शुद्धं बुधानामिहं तत्त्वमुक्तम् ।
पदार्थभङ्गेन कृतावतारं प्रकीर्त्यते संप्रति वर्त्म तस्य ॥ १ ॥ [१०५] आप्तस्तुतिपुरस्सरा प्रतिज्ञेयम् । अमुना हि प्रवर्तमानमहाधर्मतीर्थस्य मूलकर्तृत्वेनाऽपुनर्भवकारणस्य भगवतः परमभट्टारकमहादेवाधिदेवश्रीवर्द्धमानस्वामिनः सिद्धिनिवन्धनभूतां तां भावस्तुतिमासूत्र्य, कालकलितपञ्चास्तिकायानां पदार्थविकल्पे मोक्षस्य मार्गश्च वक्तव्यत्वेन प्रतिज्ञात इति ॥
१ कालस्य द्रव्यत्वविधिविधानं दर्शितं । पुनः अस्तिकायत्वप्रतिषेधविधानं दर्शितश्चात्र सूत्रैः. २ पञ्चास्तिका. यमध्ये कालान्तरभावः. ३सिद्धान्तेन. ४ कथ्यते. ५ पञ्चास्तिकायसंग्रहम्. ६ परमार्थतः. ७ कार्यतया. ८ वर्तमानकाले. ९ त्यजति. १० पूर्वोक्तः जीवः. ११ जीर्यमाणस्नेहो मोहः यस्य एवंभूतः सन् . १२ यथा जघन्यत्नेहजघन्यसचिक्कणगुणेन अभिमुखसहितपरमाणुन वध्यते पूर्ववन्धात्प्रच्यवते च जघन्यसचिक्कणत्वात् ।नेहस्य जघन्यांशत्वादित्यर्थः. १३ अग्नितप्तोदकं दौस्थ्यं जाज्वल्यमानं तप्तभावं अनुकारि सदृशं जायते तत्सदृशस्य दुःखस्याभावं लभते । तद्यथा जलस्य शीतलखभावोऽस्ति परन्तु अग्निसंयोगात्तप्तरूपं विकारभावं प्राप्नोति । पुनः कर्मवन्धवत् यदाऽग्निसंयोगो विघटते तदा शुद्धखभावं स्वस्य शीतलखभावं लभते एव । तथा हि-यदा कर्मवन्धरहितः स आत्मा भवति तदा दुःखस्य अभावं लभते. १४ दर्शनमोहः. १५ प्रकटीभवति प्रकाशते. १६ प. ग्वास्तिकायव्याख्यायाम् . १७ पदार्थविकल्पनेन भेदेन वा विवरणेन. १८ शुद्धात्मतत्त्वस्य. १९ सूत्रेण.