________________
पञ्चास्तिकायसमयसारस्य टीका। कर्मनोकर्मोपचयरूपाः पुद्गला इति । ते पुद्गलकरणाः । तदभावान्निःक्रियत्वं सिद्धानां । पुद्गलानां सक्रियत्वस्य बहिरङ्गसाधनं परिणामनिर्वर्तकः काल इति ते कालकरणाः । नच कर्मादीनामिव कालखाभावः । ततो न सिद्धानामिव निष्क्रियत्वं पुद्गलानामिति ॥
[९९] मृर्तामूर्तलक्षणाख्यानमेतत् । इह हि जीवैः स्पर्शनरसनघ्राणचक्षुभिरिन्द्रियैस्तद्विषयभूताः स्पर्शरसगन्धवर्णस्वभावा अर्था गृह्यन्ते । श्रोत्रेन्द्रियेण तु तँ एव तद्विपयहेतुभूतशब्दाकारपरिणता गृखन्ते । ते' कदाचित्स्थूलस्कन्धत्वमापन्नाः कदाचित्सूक्ष्मत्वमापन्नाः कदाचित्परमाणुत्वमापन्नाः इन्द्रियग्रहणयोग्यतासद्भावाद् गृह्यमाणा अगृह्यमाणा वा मूर्ता इत्युच्यन्ते । शेषमितरत् समस्तमप्यर्थसंजातं स्पर्शरसगन्धवर्णाभावस्वभावमिन्द्रियग्रहणयोग्यताया अभावादमूर्तमित्युच्यते । चित्तग्रहणयोग्यतासद्भावभाग्भवति तदुभयमपि । चित्तं खनियत विषयमप्राप्यकारि मतिश्रुतज्ञानसाधनीभूतं मूर्तममूर्त च समाददातीति ॥
इति चूलिका समाप्ता।
अथ कालद्रव्यव्याख्यानम् । [१०० ] व्यवहारकालस्य निश्चयकालस्य च स्वरूपाख्यानमेतत् । तत्र क्रमानुपाती समयाख्यः पर्यायो व्यवहारकालः । तदाधारभूतं द्रव्यं निश्चयकालः । तत्र व्यवहारकालो निश्चयकालपर्यायरूपोऽपि जीवपुद्गलानां परिणामेनावच्छिद्यमानत्वात्तत्परिणामभव इत्युपगीयते । जीवपुद्गलानां परिणामस्तु बहिरङ्गनिमित्तभूतद्रव्यकालसद्भावे सति संभूतत्वाव्यकालसंभूत इत्यभिधीयते । तत्रेदं तात्पर्य । व्यवहारकालो जीवपुद्गलपरिणामेन निश्चीयते, निश्चयकालस्तु तत्परिणामान्यथानुपपत्त्येति । तत्र क्षणभङ्गी व्यवहारकालः । सूक्ष्मपर्यायस्य तावन्मात्रत्वात् । नित्यो निश्चयकालः स्वगुणपर्यायाधारद्रव्यत्येन सर्वदेवाऽविनश्वरत्वादिति ।।
[१०१ ] नित्यक्षणिकत्वेन कालविभागख्यापनमेतत् । यो हि द्रव्यविशेषः 'अयं कालः, अयं कालः' इति सदा व्यपदिश्यते स खलु स्वयं सद्भावमावर्दयन् भवति नित्यः । यस्तु पुनरुत्पन्नमात्र एव प्रध्वस्यते स खलु तस्यैव द्रव्यविशेषस्य समयाख्यः पर्याय इति । 'से तूत्सङ्गितक्षणभङ्गोऽप्युपदर्शितवसंतीनो नयवलाद्दीर्घान्तरस्थाय्युपगीयमानो न दुष्यति । ततो न खल्वाऽऽवलिकापल्योपमसागरोपमादिव्यवहारो विप्रतिपिध्यते । तदन निश्चयकालो नित्यः द्रव्यरूपत्वात् । व्यवहारकालः क्षणिकः पर्यायरूपत्वादिति ॥
१ जीवाः. २ पुद्गलकरणाभावात् . ३ निप्पादकः. ४ अत्र यथा शुद्धात्माऽनुभूतिवलेन कर्मपुद्गलानामभावात्सिद्धानां निफियत्वं भवति न तथा पुद्गलानां । कम्मात्कालस्यैव सर्वत्रैव विद्यमानत्खादित्यर्थः. ५ कर्तृभूतैः. ६ करणभृतः. ७ अर्थाः ८ श्रोत्रेन्द्रियविपयभूतशब्दाकारपरिणताः. ९ विपयाः अर्थाः. ५० मृत मृत्त. १५ यथा स्पर्शनेन्द्रियस्य स्पर्शः, रसनेन्द्रियस्य रसः, घ्राणेन्द्रियस्य गन्धश्चक्षुरिन्द्रियस्य रूपं, कर्णन्द्रियस्य शब्दः विपयस्तथा चित्तस्य मनसः न नियतविपयोऽत एव चित्तमनियतविपयात्मकम् . १२ यथा स्पर्शरसघ्राणकणेन्द्रियाणि प्राप्यकारीणि तथा चित्तं प्राप्यकारि न, चक्षुरिन्द्रियवत्. १३ निश्चीयते. १४ समपादिरूपस्य. १५ नित्यत्वेन क्षणिकत्वेन निलो निश्चयकालः, क्षणिको व्यवहारकालः. १६ स्वकीयस्य. १७ अस्तिलम् . ५८ कपयन्सनिलो भवति । अत्र दृष्टान्तः। यथा-यो हि अक्षरद्वयवाच्यो सिंहशब्दः स सस्य सिंहनानः तिरदचो सद्भावमस्तित्वमावेदयन् निलो भवति. १९ व्यवहारकाल:. २० समयावलिपल्लादिनंतानः, वा क्रमेण समयोत्तरसंतानः