SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११ पञ्चास्तिकायसमयसारस्य टीका । भावप्राणाः, पुद्गलसामान्यान्वयिनो द्रव्यप्राणाः, तेषामुभयेपामपि त्रिष्वपि कालेष्वनवच्छिन्नसंतानत्वेन धारणात्संसारिणो जीवत्वं । मुक्तस्य तु केवलानामेव भावप्राणानां धारणात्तदवसेयमिति ॥ [३१-३२] अत्र जीवानां स्वाभाविकं प्रमाणं मुक्तामुक्तविभागश्चोक्तः । जीवा पविभागैकद्रव्यत्वाल्लोकप्रमाणैकप्रदेशाः । अगुरुलघवो गुणास्तु तेषामगुरुलघुत्वाभिधानस्य स्वरूपप्रतिष्ठत्वनिवन्धनस्य स्वभावस्थाविभागपरिच्छेदाः प्रतिसमयसंभवत्पट्स्थानपतितवृद्धिहानयोऽनन्ताः । प्रदेशास्तु अविभागपरमाणुपरिच्छिन्नसूक्ष्मांशरूपा असंख्येयाः । एवंविधेषु तेषु केचित्कथंचिल्लोकपूरणावस्थाप्रकारेण सर्वलोकव्यापिनः । केचित्तु तव्यापिनः इति । अथ ये तेषु मिथ्यादर्शनकपाययोगैरनादिसन्ततिप्रवृत्तैर्युक्तास्ते संसारिणो ये विमुक्तास्ते सिद्धास्ते च प्रत्येकं वहव इति ॥ [३३] एप देहमात्रत्वदृष्टान्तोपन्यासः । यथैव हि पद्मरागरनं क्षीरे क्षिप्तं स्वतो व्यतिरिक्तप्रभास्कन्धेन तद् व्याप्नोति क्षीरं । तथैव हि जीवः अनादिकपायमलीमसत्वमूले शरीरेऽवतिष्ठमानः स्वप्रदेशैस्तदभिव्यानोति शरीरम् । यथैव च तत्र क्षीरेऽग्निसंयोगादुद्वलमाने तस्य पद्मरागरत्नस्य प्रभास्कन्ध उद्बलते पुनर्निविशमाने निविशते च । तथैव च तत्र शरीरे विशिष्टाऽऽहारादिवशादुत्सर्पति तस्य जीवस्य प्रदेशाः उत्सर्पन्ति पुनरपसर्पति अपसर्पन्ति च । यथैव च तत्पद्मरागरत्नमन्यत्र भूतक्षीरे क्षिप्तं स्वप्रभास्कन्धविस्तारेण तद् व्याप्नोति प्रभूतक्षीरम् । तथैव हि जीवोऽन्यत्र महति शरीरेऽवतिष्ठमानः स्वप्रदेशविस्तारेण तद् व्याप्नोति महच्छरीरं । यथैव च तत्पद्मरागरत्नमन्यत्र स्तोकक्षीरे निक्षिप्त स्वप्रभास्कन्धोपसंहारेण तद् व्यामोति स्तोकक्षीरं । तथैव च जीवोऽन्यत्राणुशरीरे ऽवतिष्ठमानः स्त्रप्रदेशोपसंहारेण तद् व्यामोत्यणुशरीरमिति ॥ [३४] अत्र जीवस्य देहादेहान्तरेऽस्तित्वं, देहात्पृथग्भूतत्वं, देहान्तरसंचरणकारणं चोपन्यस्तम् । आत्मा हि संसारावस्थायां क्रमवर्तिन्यनवच्छिन्नशरीरसंताने यथैकस्मिन् शरीरे वृत्तः, तथा क्रमेणान्येप्वपि शरीरेषु वर्तत इति तस्य सर्वत्रास्तित्वम् । न चैकस्मिन् शरीरे नीरक्षीरमिवैक्येन स्थितोऽपि भिन्नस्वभावत्वात्तेन सहक इति । तस्स देहात्पृथग्भूतत्वं अनादिवन्धनोपाधिविवर्तितविविधाऽध्यवसायविशिष्टत्वात्तन्मूलकर्मजालमलीमसत्वाच चेष्टमानसाऽऽत्मनस्तथाविधाऽध्यवसायकर्मनिवर्तितेतरशरीरप्रवेशो भवतीति तेस्य देहान्तरसंचरणकारणोपन्यास इति । [३५] सिद्धानां जीवत्वदेहमात्रत्वव्यवस्थेयम् । सिद्धानां हि द्रव्यप्राणधारणात्मको मुख्यत्वेन जीवस्वभावो नास्ति । न च जीवस्वभावस्य सर्वथा भावोऽस्ति भावाणधारणात्मकस्य जीवस्त्रभावस्य मुख्यत्वेन सद्भावात् । नच तेषां शरीरेण सह नीरक्षीरयोरिवैक्येन वृत्तिः । यतस्ते तत्संपर्कहेतुभूतकषाययोगविप्रयोगादतीतानन्तर शरीरमात्रावगाहपरिणतत्वेऽप्यत्यन्तभिन्नदेहाः । वाचां गोचरमतीतश्च तन्महिमा । यतस्ते लौकिक प्राणधारणमन्तरेण शरीरसंबन्धमन्तरेण च परिप्राप्तनिरुपाधिस्वरूपाः सततं प्रपन्तीति ॥ १ अशुद्धनिधयेन भावरूपाणां, उपचरितासद्भुतव्यवहारेण द्रव्यरूपाणाम्. २ जीवानाम्. ३ अभिन्नाः. ४ प्रचुरदुग्धे. ५ अन्यन्मिन्. ६ एकस्वरूपत्वेन. ७ अनादि च तदेव बंधनं च तस्योपाधिः तेन विवर्तिताः निप्पादिताः ते च ते विविधा नानाप्रकाराः अध्यवसाया रागद्वेषमोहपरिणतिरूपाश्च तैर्विशिष्टत्वात्संयुक्तत्वात्. ८ रागद्वपमोहरूपेण विनियां कुर्वाणस्य. ९ जीवस्य. १० द्रव्यप्राणाः इन्द्रियवलाः पुरूच्छासलक्षणात्मकाः. ११ भावप्राणस्य सत्तासुखवोधचतन्यलक्षणस्य. १२ तेषां सिद्धानां. १३ तस्य शरीरस्य संपर्कः संयोगः तत्संपकोहेनुभूताश्च ते कपाययोगाच तेषां विप्रयोगो विनाशस्तन्मात. १४ अतिशयेन लक्तदेहाः. १५ तेषां सिद्धानां महिना तन्महिमा. १६ प्रकाशयन्ति.
SR No.010451
Book TitleRaichandra Jain Shastra Mala Panchastikaya Samay Sara
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages157
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy