________________
रायचन्द्रजैनशास्त्रमालायाम् व्यवहारेण शुभाशुमकर्मसंपादितेष्टानिष्टविषयाणां भोक्तृत्वासोती । निश्चयेन लोकमानोऽपि विशिष्टावगाहपरिणामशक्तियुक्तत्वात् नामकर्मनिवृत्तमणुमहच्च शरीरमधितिष्ठन् व्यवहारेण देहमात्रो व्यवहारण कर्मभिः सहैकत्वपरिणामान्मूर्तोऽपि निश्चयेन नीरूपम्वभावत्वान्नहि मूर्तः । निश्रयेन पुद्गलपरिणामानुरूपचैतन्यपरिणामात्माभिव्यवहारेण चैतन्यपरिणामानुरूपपुद्गलपरिणामात्मभिः कर्मभिः संयुक्तत्वात्कर्मसंयुक्त इति ॥
[२८] अत्र मुक्तावस्थस्सात्मनो निरुपाधि स्वरूपमुक्तम् । आत्मा हि परद्रव्यत्वात्कर्मरजसा सार्कल्येन यस्मिन्नेव क्षणे मुच्यते तस्मिन्नेवोर्ध्वगमनस्वभावत्वाल्लोकान्तमधिगम्य परतो गतिहेतोरभावादवस्थितः केवलज्ञानदर्शनाभ्यां स्वरूपभूतत्वादमुक्तोऽनन्तमतीन्द्रियं सुखमनुभवति । मुक्तस्य चास्य भावप्राणधारणलक्षणं जीवत्वं, चिद्रूपलक्षणं चेतयितृत्वं, चित्परिणामलक्षणं उपयोगः, निर्वर्तितसमस्ताधिकारशक्तिमात्रं प्रभुत्वं, समस्तवस्त्वसाधारणस्वरूपनिवर्तनमात्रं कर्तृत्वं, स्वरूपभूतस्वातन्त्र्यलक्षणसुखोपलम्भरूपं भोक्तृत्वं, अतीतानन्तरशरीरपरिमाणावगाहपरिणामरूपं देहमानत्वं, उपाधिसंवन्धविविक्तमात्यन्तिकममूर्तत्वं । कर्मसंयुक्तत्वं तु द्रव्यभावकर्मविप्रमोक्षान्न भवत्येव । द्रव्यकर्माणि हि पुद्गलस्कन्धाभावकाणि तु चिद्विवर्ताः । "विवर्तते हि चिच्छक्तिरनादिज्ञानावरणादिकर्मसंपर्कणितप्रचारा परिच्छेद्यैस्स विश्वस्यैकदेशेषु क्रमेण व्याप्रियमाणा । यदा तु ज्ञानावरणादिकर्मसंपर्कः प्रणश्यति तदा परिच्छेद्यस्य विश्वस्य सर्वदेशेषु युगपयाप्ती कथंचित्कौटस्थ्यमवाप्य विषयान्तरमनाप्नुवन्ती न विवर्तते । स खल्वेष निश्चितः सर्वज्ञसर्वदर्शित्वोपलम्भः । अयमेव द्रव्यकर्मनिवन्धनभूतानां भावकर्मणां कर्तृत्वोच्छेदः । अयमेव च विकारपूर्वकानुभवाभावादीपाधिकसुखदुःखपरिणामानां भोक्तृत्वोच्छेदः । इदमेव चानादिविवर्तखेदविच्छित्तिसुस्थितानन्तचैतन्यस्यात्मनः स्वतन्त्रस्वरूपानुभूतिलक्षणसुखस्य भोक्तृत्वमिति ॥
[२९] इदं सिद्धस्य निरुपाधिज्ञानदर्शनसुखसमर्थनम् । आत्मा हि ज्ञानदर्शनसुखस्वभावः संसारावस्थायामनादिकर्मक्लेशसंकोचितात्मशक्तिः परद्रव्यसंपर्केण क्रमेण किंचित्किचिज्जानाति पश्यति परप्रत्ययं मूर्तसंवन्धं सव्यावाधं सान्तं सुखमनुभवति च । यदा त्वस्य कर्मक्लेशाः सामस्त्येन प्रणश्यन्ति, तदाऽनर्गलाऽसंकुचितात्मशक्तिरसहायः स्वयमेव युगपत्समग्रं जानाति, पश्यति, स्वप्रत्ययममूर्तसंबन्धभव्यावाधमनन्तसुखमनुभवति च । ततः सिद्धस्य समस्तं स्वयमेव जानतः, पश्यतः, सुखमनुभवतश्च, स्वं न परेण प्रयोजनमिति ॥ [३०] जीवत्वगुणव्याख्येयम् । इन्द्रियबलाः पुरूच्छासलक्षणा हि प्राणाः। ते चित्सामान्यान्वयिनो
१ शुद्धनिश्चयेन शुद्धात्मोथिवीतरागपरमानन्दरूपसुखस्य तथैवाशुद्धनिश्चयेनेन्द्रियजनितसुखदुःखानां तथाचोपचरितासद्भूतव्यवहारेण सुखदुःखसाधकेष्टानिष्टाशनपानादिवहिरङ्गविषयाणां च भोक्तृत्वात् भोक्ता भवति. २ निश्चयेन लोकाकाशप्रमितासंख्येयप्रदेशप्रमितोऽपि व्यवहारेण शरीरनामकर्मोदयजनिताऽणुमहच्छरीरप्रमाणत्वात्स्वदेहमानो भवति. ३ असद्भूतव्यवहारेणानादिकर्मवन्धसहितत्वान्मूर्तोऽपि शुद्धनिश्चयेन वणीदिरहितत्वादमूर्तोऽपि भवति. ४ शुद्धनिश्चयेन कर्मरहितोऽप्यनुपचरितासद्भूतव्यवहारेण द्रव्यकर्मसंयुक्तत्वात तथैवाशुद्धनिश्चयेन रागादिरूपभावकर्मसंयुक्तो भवति. ५ द्रव्यभावरूपेण. ६ समये. ७ सत्तामुखबोधचैतन्यलक्षणं. ८ रचित---. ९ विस्तार--- १० पर्यायाः. ११ व्याधुट्टनं करोति. १२ संकोचित- १३ ज्ञेयस्य. १४ चिच्छक्तिः. १५ निश्चलत्वं प्राप्य. १६ ज्ञेयरूपं परद्रव्यं अनाप्नुवन्ती. १७ पराधीनं वा पराश्रितं मुसं. १८ आत्मनः. १९ खात्मोत्थं सुखम्. २० प्राणेपु.