________________
अभिसमयालवारालोकः ।
५३३
सप्तम्यामुपायपारमिताबलेन सत्त्वपरिपाके, ततो बलपारमिताबलेनाष्टम्यां श्रावकाद्यसाधारणे बोधिसत्त्वमार्गे पुनस्तचैव सर्वभावाभिनिवेशप्रहाणे, तदनु नवम्यां प्रणिधानपारमितासामर्थ्याहोधिप्राप्तौ, तदनन्तरं ज्ञानपारमिताबलादशम्यां दिविधबुद्धक्षेत्रविशुद्धौ प्रतिष्ठाप्य पुनस्तत्रैव जातिप्रतिबद्दस्वरूपे सम्यकसम्बोधिप्रतिनियमे दशदिग्लोकधातवीर्यसत्त्वार्थे मर्वलोकधातुबुद्धोपसङ्कमगादिगणे च निवेशयत्येवमनुक्रमेण पुनस्तचैव विशेषमार्गस्वरूपे समस्तबोध्यावाहकधर्मलक्षणे बोध्यङ्गे कर्मफलसम्बन्धाविप्रणाशे, यथाभूतपदार्थाधिगमे सर्वविपर्यासप्रहाणे निर्वस्तुकविपर्यामप्रहाणज्ञाने प्रकृतिपरिशुद्धिलक्षणे बोधिसत्त्वव्यवदाने, सर्वकलङ्कापगतव्यवदानहेतौ सम्भारे, शून्यतास्वभावेन संस्कृतासंस्कृताव्यतिभेदपरिज्ञाने च प्रतिष्ठाप्य ताथागत्यां भूमौ निर्वाणे निवेशयतीत्येवं धर्मकायवदस्यासंसारं सप्तविंशतिप्रकारं कर्मविनेयजनप्रतिभासभाक् तदाधिपत्याश्रयेणायातं संहत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादबारेणार्थक्रियाकारोति धर्मकायस्येष्यत इति कारित्रमवसातव्यम् । तथा चोक्तम्।
तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्म सङ्घहे च चतुर्विधे ॥ ३४ ॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ ३५ ॥ बुद्धमार्गे प्रकृत्यैव शून्यतायां हयक्षये । सङ्केतेऽनुपलम्भे च परिपाके च देहिनाम् ॥ ३६ ॥