________________
५३२
ऊनत्रिंशत्तमपरिवर्तः ।
ललाटमपरिम्लानं पृथपूर्णोत्तमाङ्गता। भ्रमराभाश्चिता श्लक्ष्णा असंलुडितमूर्तयः ॥३१॥ केश अपरुषाः पुंसां सौरभ्यादपहारिणः । श्रीवत्सः स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम् ॥३२॥
इति। तदनु येन शाक्यमुनितथागतादिरूपेणासंसारं सर्वलोकधातुषु सत्त्वानां समौहितमर्थं समकरोत्यसौ कायःप्रबन्धतयाऽनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थोऽवसातव्यः। तथा चोक्तम् ।
करोति येन चित्राणि हितानि जगतः समम् । आभवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः॥३३॥
इति। तत्र प्रथमं प्रशस्ताप्रशस्तगत्यनभिनिवेशानवस्थानलक्षणं गतिप्रशमनं कर्म कृत्वा, दानादिचतुःसङ्ग्रहवस्तुनि प्रतिष्ठाप्य श्रुतमयादिज्ञानेन विपक्षप्रतिपक्षं हेयोपादेयहारेण बोधयित्वा मायाकार इवानुनयादिविविक्ततया मैयादिलक्षणे परार्थे सत्त्वार्थयाथात्म्ये प्रतिस्थाप्य, तदनु स्वार्थे त्रिमण्डलविशुद्धिप्रभावितषट्पारमिताऽभ्यासे, तदनन्तरं स्वपरार्थलक्षणे दशकुशलकर्मपथे बुद्धमार्गे, ततः सर्वधर्मप्रकृतिशून्यताऽभ्यासे, तदनु दानपारमिताधिष्ठानेन प्रथमायां भूमौ सर्वचगधर्मधातुप्रतिवेधलक्षणेऽद्दयधर्म, ततो द्वितीयादिभूमौ सम्भारपरिपूरिहेतुभूते शौलादिपारमितासर्वधर्मसाङ्केतिकज्ञाने निवेशयति, एवमनुक्रमेण प्रज्ञापारमिताऽधिष्ठानेन षधां भूमौ ज्ञानज्ञेयभावनाभिनिवेशलक्षणे सर्वधर्मानुपलम्भे, तदनन्तरं