________________
अभिसमयालवारालोकः ।
५१३
माह । सर्वसत्त्वधात्वित्यादि। एतदक्तं श्रावकप्रत्येकबुद्धभूमौ बोधिसत्त्वन्यामावक्रान्तौ बिसाहसमहासाहस्त्रलोकधातवीयसत्त्वान् प्रतिष्ठाप्य कश्चिद्यत्पुण्यं प्रसवति तदपमोकृत्य तदिशिष्टपुण्यबहुत्वेन या सर्वाकारज्ञता बुद्धत्वमिति बुद्धत्वप्राप्तेरव्यवहितो यः पूर्वसमनन्तरः समाधिः सोऽत्रानन्तर्यसमाधिस्तस्यैवं सर्वसत्त्वधातुपुण्यज्ञानसंभारात्प्रतिविशिष्टत्वेनापर्यन्ततया प्रज्ञापारमिता भावनौयेति । तथा चोक्तम् ।
त्रिसाहस्रजनं शिष्यखगाधिगमसंपदि। बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्यशुभोपमाः ॥३७॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः ।
आनन्तर्यसमाधिः स मर्वाकारज्ञता च तत्॥३८॥ इति अस्य चानन्तर्यममाधेः सर्वधर्माभाव आलम्बनप्रत्ययः स्मरणञ्चाधिपतिप्रत्ययः प्रकृतिशान्तता चाकारोादाक्षिप्तो वेदितव्योऽन्यथानन्तर्यसमाधेरधिगन्तुमशक्यत्वात् । तथा चोक्तम् ।
आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः । अकारः शान्तता चात्र इति अत्र च स्थाने दरवगाहत्वादविदितोपायकौशलानां प्रवादिनां नानाचोद्यमुखपरम्परा प्रसर्पिणो विप्रतिपत्तिरिदानौं निराकर्तव्येति । प्रथमविप्रतिपत्त्यर्थमाह । पृथिवौधात्वपर्यन्ततयेति। संस्कृतासंस्कृतधात्वोरभावत्वेनालम्बनोपपत्तौ विप्रतिपत्तेनिराकरणाय मायोपमतया सर्वगुणप्रतिष्ठाभावात् पृथिवौसमत्वेन संस्त्या सर्वधर्माणामालम्बनस्वाभाव्यात्पृथिवौधात्वपर्यन्ततयाऽऽनन्तर्यसमाधि
65