________________
५१२
ऊनत्रिंशत्तमपरिवर्तः।
विकल्पो नवप्रकारो भावनामार्गचित्तचैत्तप्रत्त्यवस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति । तथा चोक्तम् ।
सत्त्वप्रज्ञप्तित तुविषयो नवधाऽपरः। भावनामार्गसम्बदो विपक्षस्तविघाततः॥३२॥ सर्वज्ञतानां तिमृणां यथास्वं त्रिविधाहतौ। शान्तिमार्गतथतादिमंप्रयोगवियोगयोः ॥३३॥ अममत्वे च दःखादौ क्लेशानां प्रकृतावपि । दयाभावे च संमोहे विकल्पः पश्चिमो मतः॥३४॥ इति यथोक्तभावनामार्गे विपक्षमेवं मप्रतिपक्षं निर्दिश्य तदधिगमेनैव चतुर्विकल्पप्रहाणात् सर्वगुणसम्पदो भवन्तौत्याह। सर्वबुद्धधर्मसमुदागमापर्यन्ततयेति। एतदुक्तं भावनामार्गाभ्यासादासाञ्चतुर्विकल्पजातीनामुपद्रवत्वेनेतीनां क्षये मति मंरोधवैकल्येन संहर्षाच्छासप्राप्ता इव सर्वास्त्रियानसंगृहौता गणसम्पदः कृपापारतन्त्र्यात्सर्वप्रकारजगत्सौख्योत्पादनदक्षाः सर्वथाभिमुख्या गमनप्रकारेण प्रकर्षपर्यन्ताधिगमफलैः प्राप्तशोभं भावनामार्गस्थं बोधिसत्त्वमाश्रयन्ते महासमुद्रमिव नद्य इत्येवं सर्वबुड्वधर्माणां समुदागमापर्यन्तत्वेन महानुशंसास्वभावेन भावनामार्गोऽवसातव्य इति । तथा चोक्तम् ।
आसां क्षये सतौतौनां चिरायोच्छुसिता इव । सर्वाकारजगत्सौख्यसाधाना गुणसम्पदः ॥३५॥ सर्वाः सर्वाभिमारेण निकामफलशालिनम् ।
भजन्ते तं माहसत्त्वं महोदधिमिवापगाः ॥३६॥ इति भावनामागानन्तरमानन्तर्यमार्ग इत्यानन्तर्यसमाध्यर्थ