________________
अभिसमयालवारालोकः ।
रूपादिधनवस्थानात्तेषु योगनिषेधतः । तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः ॥ ८॥ तदप्रामाण्यतः कृच्छ्राचिरेण प्रतिबोधतः । व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ ६ ॥ आसन्नबोधे क्षिप्रञ्च परार्थे राहानितः । धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने ॥ १० ॥ रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः । फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ ११ ॥ इति
युक्तरूपा चेयमेषां विंशतेः प्रयोगाणामानुपूर्वी। तथा हि रूपादिधनभिनिवेशयोगेन स्थितोऽयोगप्रयोगेणाभियुज्यमानस्तेषां रूपादीनां गम्भीरतां दरवगाहतामप्रमाणताञ्चावगच्छति। ततोऽसम्यग्योगविहितत्वेनादिकर्मिकः कृच्छ्रेण तदन्यः सुखेन व्याकरणम विनिवर्त्यभूमिञ्च प्राप्य निर्यात्यविरहितो भवत्यासन्नौभवति क्षिप्रमभिसम्बध्यते । ततः परार्थं कुर्वन् न वर्धते न परिहीयते । ततो धर्माधर्मादौ सामान्ये रूपाचिन्त्यादौ च विशेषे सर्वमंज्ञाप्रहाणादविकल्पकः। फलरत्नप्रदानेन परां शुद्धिं निष्ठां प्रातो भवति। पूर्वमेवासंवत्सरमभियोगपरिकर्मितचित्तसन्तान इत्यधिगमप्रभावितः प्रयोगानुक्रमः। प्रयोगानन्तरं गुणदर्शनपूर्वकं सुतरामभ्यस्यन्ते प्रयोगा इति तहणा वक्तव्याः। तत्र प्रथमं मारशक्तिव्याघातगुणं वक्तुमाह । इह भगवन् प्रज्ञापारमितायामित्यादि। न प्रसहिष्यत (p 222, 1) इति न प्रभविष्यति। अच्छिद्रसमादानस्येत्यादि। अखण्डितप्रज्ञापारमितापठनादिसमादानस्य । अच्छिद्रसमादानस्य तावन्माचं विघ्रासामर्थ्यादाह। यदा