________________
लेखाङ्का-४२-६।
रस्वतीमूर्तिदेवकुलिकाचतुष्टयजिनयुगलाम्बावलोकनाशाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टयतुरगाधिरूढस्वपितामहमहं० श्रीसोम निजपितृठ० श्रीआशाराजमूर्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेवआत्मीय( * )पूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घाटनकस्तम्भश्रीअष्टापदमहातीर्थप्रभृतिअनेककीतैनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटजातीयठ० श्रीकान्हडपुत्र्याः ठराणुकुक्षिसंभूताया महं० श्रीललितादेव्याः पुण्याभि(*)वृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसरिसंताने शिष्यश्रीशान्तिसूरिशिष्यश्रीआणन्दसूरिश्रीअमरसूरिपदे भट्टारकश्रीहरिभद्रसरिपट्टालंकरणप्रभुश्रीविजयसेनसरिप्रतिष्ठितश्रीअजितनाथदेवादिविंशतितीर्थकरालंकृतोऽयमभिनवः समण्डपः श्रीसंमेतमहातीवतारमासादः कारितः। स श्रीजिनाधिपतिधर्मधुराधुरीणः
श्लाघास्पदं कथमिवास्तु न वस्तुपालः । श्रीशारदासुकृतकीर्तिनयादिवेण्याः . पुण्यः परिस्फुरति जङ्गमसङ्गमो यः ॥ १ ॥ विभुताविक्रमविद्याविदग्धतावित्तवितरणविवेकैः । यः सप्तभिर्विकारैः कलितोऽपि वभार न विकारम् ॥२॥ यस्य भूः किमसावस्तु वस्तुपालसुतः सदा । नावर्णासावथाप्येतौ धर्मकर्मकृतौ कृतौ ।। ३ ।। कस्यापि कविता नास्ति विनास्य हृदयामुखम् । वास्तव्यं वस्तुपालस्य पश्यामस्तद्वयं च यम् ॥ ४॥