________________
५६
प्राचीन जैनलेख संग्रहे
प्रस्तावस्तव वस्तुपाल भवते यद्रोचते तत्कुरु ॥ ५ ॥ के निधाय वसुधातले धनं वस्तुपाल न यमालयं गताः । त्वं तु नन्दसि निवेशयन्निदं दिक्षु धावति जने क्षुधावति ||६|| पौत्रेण धारय वराहपते धरित्रीं सूर्य प्रकाशय सदा जलदाभिषिञ्च ।
विश्राणितेन परिपालय वस्तुपाल
भारं भवत्सु यदिमं निदधे विधा (# ) ता || ७ ॥ आत्मा त्वं जगतः सदागतिरियं कीर्तिर्मुखं पुष्करं मैत्री मन्त्रिवरः स्थिरा वनरसः श्लोकस्तमोन्नः शमः । नोक्तः केन करस्तवामृतकरः कायथ भास्वानिति
स्पष्टं धूर्जटिमूर्तयः कृतपदाः श्रीवस्तुपाल त्वयि ॥ ८ ॥ विद्या यद्यपि वैदिकी न लभते सौभाग्यमेषा कचि
न्न स्मार्तं कुरुते च कथन वचः कर्णद्वये य ( * ) द्यपि | राजानः कृपणाच यद्यपि गृहे यद्यप्ययं च व्ययचिन्ता कापि तथापि तिष्ठति न मे श्रीवस्तुपाले सति ||९|| कर्णे खलप्रलपितं न करोषि रोपं नाविष्करोपि न करोष्यपदे च लोभम् । तेनोपरि त्वमवनेरपि वर्तमानः
श्रीवस्तुपाल कलिकालमधः करोपि ॥ १० ॥ . सर्वत्र भ्रान्तिमती सर्वविदस्त्वदभवत्कथं कीर्तिः । (*) श्रीवस्तुपालपैतुर्कमनुहरते सन्ततिः प्रायः ॥ ११ ॥ सोऽपि वलेरवलेपः स्वल्पतरोऽभूत्तथैव कल्पतरोः । श्रीवस्तुपालसचित्रे सिञ्चति दानामृतैर्जगतीम् ॥ १२ ॥
१-० पितृकमनुहर्त्तं संप्रति० - इति प्राचीनलेखमालायाम् ।