________________
लेखाङ्कः-४०-३ ।
५५
या मह० श्रीसोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्री महेन्द्रसूरि संताने शिष्य श्री शान्तिसूरि शिष्य श्री आणन्द सूरि श्रीअमरसूरिपदे भट्टारक श्रीहरिभद्रसूरि पट्टा लंकरणमभुश्रीविजयसेन सूरिप्रतिष्ठितऋषभदेवालंकृतोऽयमभिनवः समण्डपः श्रीअष्टापदमहातीर्थावतारनिरूपमप्रधानप्रासादः कारितः ॥
प्रासादैर्गगनाङ्गणप्रणयिभिः पातालमूलंकपैः कासारैश्च सितैः सिताम्वरगृहैनीलैश्च लीलावनैः । येनेयं नयनिर्जितेन्द्रसचिवेनालंकृतालं क्षितिः क्षेमैकायतनां चिरायुरुदयी श्रीवस्तुपालोऽस्तु सः ॥ १ ॥ संदिष्टं तव वस्तुपालवलिना विश्वत्रयीयात्रिका -
न्मत्वा 'ना ( * ) रदतचरित्रमिति ते हृष्टोऽस्मि नन्द्याचिरम् । नार्थिभ्यः क्रुधमर्थितः प्रथयसि खल्पं न दत्से न च स्वश्लाघां वहु मन्यसे किमपरं न श्रीमदान्मुह्यसि ॥ २ ॥ अरिवलदलमश्री वीरनामायमुर्व्यां सुरपतिरवतीर्णस्तर्कयामस्तदस्य ।
निवसति सुरशाखी वस्तुपालाभिधानः सुरगुरुरपि तेजःपालसंज्ञः समीपे ॥ ३ ॥ उदारः शूरो वा (*) रुचिरवचनो वाऽस्ति न हि वा भवतुल्यः कोऽपि क्वचिदिति चुलुक्येन्द्रसचिव ! | समुद्भूतभ्रान्तिर्नियतमवगन्तुं तव यश
स्तति गेहे पुरि पुरि च याता दिशि दिशि ॥ ४ ॥ सा कुत्रापि युगत्रयी वत गता सृष्टा च सृष्टिः सतां . सीदत्साधुरसंचरत्सुचरितः खेलत्खलोऽभूत्कलिः । द्विश्वार्तिनिवर्तनैकमनसा मत्तोऽधुना शं( * ) भुना