________________
लेखाङ्कः - ४०-३ ।
५३
इह तेजपाल सचिव मिलितविमलाच लेन्द्रममृतभृतम् । कृत्वाऽनुपमसरोवरममरगणं प्रीणयांचक्रे ॥ ७ ॥ एते श्रीमलधारिश्रीनरचन्द्रसुरीणाम् ॥
इह वालिग सुतसह जिगपुत्रातकतनुजवाजडतनूजः । अलि (*) खदिमां कार्यस्थस्तम्भपुरीय ध्रुवो जयन्तसिंहः ॥ हरिमण्डपनन्दीश्वर शिल्पीश्वर सोमदेव पौत्रेण । वकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥ श्रीनेमेत्रिजगद्भर्तुरभ्वायाश्च प्रसादतः
वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्ति शालिनी ॥ महामात्यश्री वस्तुपालस्य प्रशस्तिरियं ६०३ महामात्यव - स्तुपालभार्यामहं श्री सोखुकाया धर्मस्थानमिदम् ॥
( गिरनार इन्सक्रिप्शन्स् नं० २।२३-२४ )
(४०- ३ )
॥ ॐ नमः सर्वज्ञाय ॥
प्रणमदमरमेङ्खन्मौलिस्फुरन्मणिधोरणीतरुणकिरणश्रेणीशोणीकृताखिलविग्रहः || सुरपतिकरोन्मुक्तैः स्नात्रोदकै घुसृणारुणततनुरिवापायात्पायाज्जगन्ति शिवाङ्गजः ॥
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमद णहिलपुरवास्तव्य प्रा (# ) ग्वाटान्वयप्रसूत ठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ट० श्रीसोमतनुज ट० श्री आशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य उ० श्रीलुणिगमहं० श्री -