________________
५२
प्राचीन जैनलेखसंग्रहे
विजय सेनसूरि प्रतिष्ठित श्री ऋषभदेवप्रमुखचतुर्विंशतितीर्थंकरालंकृतोऽयमभिनवः समण्ड ( * )पः श्रीसमेतमहातीर्थावतारप्रधानप्रासादः कारितः ।
चैतः किं कलिकालसालसमहो किं मोहनो हस्यते
तृष्णे कृष्णमुखासि किं कथय किं विघ्नौघमोघो भवान् । ब्रुमः किंतु सखे न खेलति किमप्यस्माकमुज्जृम्भितं सैन्यं यत्किल वस्तुपालकृतिना धर्मस्य संवर्धितम् ॥ १ ॥ यं विधुं बन्धवः सिद्धमर्थिनः शत्र (*)......... 1 .........णपश्यन्ति वर्ण्यतां किमयं मया ॥ २ ॥ वैरं विभूतिभारत्योः प्रभुत्वप्रणिपातयोः । तेजस्विताप्रशमयोः शमितं येन मन्त्रिणा ॥ ३ ॥ दीपः स्फूर्जीत सज्जकज्जलमलस्नेहं मुहुः संहरनिन्दुर्मण्डलवृत्तखण्डनपरः प्रद्वेष्टि मित्रोदयम् । शूरः क्रूरतरः परस्य सहते तेजो न तेजस्विन
स्तत्केन प्रतिमं त्र (*)वीमि सचिवं श्रीवस्तुपालाभिधम् ॥४॥ आयाताः कति नैव यान्ति कतिनो यास्यन्ति नो वा कति स्थाने स्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः । अस्मिन्विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून करें
कुर्वन्पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः परम् ॥ ५ ॥ दधेऽस्य वीरधवलक्षितिपस्य राज्य - भारे धुरंधरपुरा (*)
श्री तेजपाल सचिवे दधति स्वबन्धुभारोद्धृतावविधुरैकधुरीणभावम् ।। ६ ।।
--
1