________________
लेखाङ्कः-३२। श्रीविनयविजयगणिभिः प्रतिष्ठितं ॥ श्रीरस्तु ॥ श्रीशत्रुजयमहातीर्थकार्यकरपंडित श्री५ शांतिविजया देवविजयग० मेघविजयग० . साहाय्यतः सिद्धमिदम् ॥ सूत्रधार मनजीः ॥
(एपिग्राफिआ इण्डिका-२|७३) (३२)
॥ श्री ॥ ॐ नमः ॥
वभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधिशाः आर्यरक्षितसूरयः ॥१॥ तत्पट्टपंकजादित्याः सूरिश्रीजयसिंहकाः। श्रीधर्मघोपस्सूरींद्रा महेंद्रसिंहसूरयः ॥ २ ॥ श्रीसिंहप्रभसूरीशाः सूरयो जिनसिंहकाः। श्रीमदेवेंद्रसूरीशा श्रीधर्मप्रभसूरयः ॥३॥ श्रीसिंहतिलकाहाश्च श्रीमहेंद्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्याः बभूवुः सूरयस्ततः ॥ ४ ॥ समग्रगुणसंपूर्णाः सूरिश्रीविजयकीर्तयः । तत्पट्टेऽथ सुसाधुश्रीजयकेशरसूरयः ॥ ५॥ श्रीसिद्धांतसमुद्राख्याः सूरयो भूरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥ ६॥ श्रीमद्गुणनिधानाख्याः सूरयस्तत्पदेऽभवन् । युगप्रधानाः श्रीमंतः सूरिश्रीधर्ममूर्तयः ॥७॥ तत्पहोदयशैलाग्रप्रोद्यत्तरणिसन्निभाः । • अभवन्सरिराजश्रीयुजः कल्याणसागराः ॥ ८ ॥ ... श्रीअमरोदधिसूरींद्रास्ततो विद्यासूरयः ।