SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - १२ ॥ द्वासप्ततिः श्रियमयंति जिनेंद्रचंद्रविवानि देवकुलिकासु च तावतीषु । द्वासप्ततेः श्रितजनालिकलालतानां किं कुड्मला परिमलैर्भुवनं भरतः ॥ ५२ ॥ राजते यत्र चत्वारो गवाक्षा जिनवेश्मनि । विरंचैरिव वक्त्राणि विश्वाकारणहेतवे ॥ ५३ ॥ यत्र चैत्ये विराजते चत्वारश्च तपोधनाः । अमी धर्म्माः किमायाताः प्रभूपास्त्यै वपुर्भृतः ॥ ५४ ॥ पंचालिकाः श्रियमयंति जिनेंद्रधानि द्वात्रिंश दिंद्ररमणीभरजैत्ररूपाः । ज्ञात्वा पतीनिह जिने किमु लक्षणक्ष्मा राजां प्रिया निजनिजेशनिभालनात्काः ॥ ५५ ॥ द्वात्रिंशदुत्तमतमानि च तोरणानि राजंति यत्र जिनधानि मनोहराणि । किं तीर्थकृद्दशनलक्ष्मिमृगेक्षणांनामंदोलनानि सरलानि सुखासनानि ॥ ५६ ॥ गजाश्चतुर्विंशतिरऽद्रितुंगा विभांति शस्ता जिनधानि यत्र । देवाश्चतुर्विंशतिरीशभक्तयै किमागताः कुञ्जररूपभाजः ॥ ५७ ॥ स्तंभाश्चतुस्सप्ततिरद्रिराजो तुंगा विभांतीह जिनेंद्र चैत्ये । दिशामधीशैः सह सर्व इंद्राः किमाप्तभतयै समुपेयिवांसः ॥ ५८ ॥ * ॥ १९
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy