SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १.४ प्राचीन जैनलेखसंग्रहे मृतधनं च करं च सुजीजिआभिधसकन्दर भूपतिरत्यजत् ॥ १८ ॥ ; यद्वाचा कतकाभया विमलितस्त्रांतांपूरः कृपापूर्णः शाहिरनिन्द्यनीतिवनिताको [डीकृतात्मा ] त्यजत् । शुल्कं त्य[क्तुम]शक्यमन्यधरणीराजां जनप्रीतये तद्वान्नीडजपुंज पूरुपपश्चामृमुचद्भूरिशः ॥ १९ ॥ यद्वाचां निचयैर्गुधाकृतसुवास्वा[र] मंदैः कृताल्हादः श्रीमदकच्चरः क्षितिपतिः संतुष्टिपुष्टाशयः । त्यक्त्वा तत्करमर्थसार्थमतुलं येषां मनःप्रीतये जैनेभ्यः प्रददौ च तीर्थतिलकं शत्रुंजयोवधरम् ||२०|| यद्वाग्भिर्मुदितञ्चकार करुणास्फूर्जन्मनाः पौस्तकं भाण्डागारमपारवाङ्मयमयं वेश्मेव वाग्दैवतम् । यत्संवेगभरेण भावितमतिः शाहिः पुनः प्रत्यहं पूतात्मा बहु मन्यते भगवतां सद्दर्शनो दर्शनम् ॥ २१ ॥ यद्वाचा तरणित्विषेव कलितोल्लास मनःपंकजं विभ्रच्छाहिअकव्वरो व्यसनधीपायोजिनीं चंद्रमाः । जज्ञे श्राद्धजनोचितैथ सुकृतैः सर्वेषु देशेष्वपि विख्याताऽऽर्हतभक्तिभावितमतिः श्रीश्रेणिकक्ष्मापवत् ॥ २२॥ लुंपाकाधिपमेघजीऋपिमुखा हित्वा कुमत्याग्रहं : भेजुर्यच्चरणद्वयीमनुदिनं भृंगा इवांभोजिनीम् । उल्लासं गमिता यदीयवचनैर्वैराग्यरंगोन्मुखै जीताः स्वस्वमतं विहाय बहवो लोकास्तपासंज्ञकाः ||२३|| आसीच्चैत्यविधापनादिसुकृतक्षेत्रेषु वित्तव्ययो भूयान् यद्वचनेन गुर्जरथरामुख्येषु देशेष्वलम् ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy