________________
२९८
प्राचीनजैनलेखसंग्रहे
साहि श्रीवर्द्धमानस्य नन्दनाथन्दनोपमाः । वीरादी विजपालाख्यो भामों द्दि जगहस्तथा ॥ १४ ॥
साहि श्री चापसिंहस्य पुत्रः श्रीअमियाभियः । तदङ्गजी शुद्धमती रामभीमावुभावपि ॥ १५ ॥ मंत्रीपद्मसिंहस्य पुत्रा रत्तोपमास्त्रयः । श्रीश्रीपाल - कुंरपाल - रणमला वरा इमे ॥ १६ ॥ श्रीश्री पालाजी जीयान्नारायणो मनोहरः । तदङ्गनः कामरूपः कृष्णदास महोदयः ॥ १७ ॥ साहि श्रीकुंरपालस्य वर्तक । मुसीलस्थावराख्यथ चायजिद्भाग्यसुन्दरः ॥ १८ ॥
[ एवं ] सपरिकरयुताभ्याममात्यशिरोरत्नाभ्यां साहिश्रीवर्द्धमान- पद्मसिंहाभ्यां हाहारदेशे नव्यनगरे जाम श्रीशत्रुशल्यात्मज श्री जसवंतजीविजयराज्ये श्रीअंचलगच्छेशश्रीकल्याणसागरसूरीश्वराणामुपदेशनात्र श्रीशांतिनाथप्रासादादिपुण्यकृत्यं कृतं 1 श्रीशांतिनाथ प्रभृत्येकाधिकपंचशत प्रतिमाप्रतिष्ठायुगं करापितम् । चाद्या संवत १६७६ वैशाख ३ seat द्वितीया संवत् १६७८ वैशाखशुद्ध ५ शुक्रवासरे । एवं मंत्रीश्वर श्रीवर्द्धमानपद्मसिद्दाभ्यां सप्तरुप्यमुद्रिका व्ययीकृता नवक्षेत्रेषु । संवत् १६९७ मार्गशीर्षशुक्ऋ २ गुरुवासरे उपाध्यायश्रीविजयसागरगणेः शिष्यसौभाग्यसागरैरलेखीयं प्रशस्तिर्मनमोहन सागरप्रसादान् ॥