________________
२९०
प्राचीनलेनलेखसंग्रहे
द्वौ द्वास्थौ द्वारदेशस्यौ राजतो. भूमिधामनि । मूर्तिमन्तो चमरेन्द्रधरणेन्द्राविव स्थितौ ॥ ५२ ॥ चत्वारअमरधरा राजन्ते यत्र भूगृहे । प्रभुपाचे समायाता धर्मास्त्यागादयः किमु ॥ ५३ ।। भाति भूमिगृहे मूलगर्भागारेऽतिसुन्दरे । मृतिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ५४ ॥ श्रीवीरस्य त्रयस्त्रिंशदगुला मूर्चिरुत्तमा । श्रीशान्तश्च सप्तविंशत्यगुला भाति भूगृहे ।। ५५ ॥ यत्रोद्धता घराधाम्नि शोभन्ते दश दन्तिनः । युगपजिनसेवाय दिशामीशा इवाययुः ॥ ५६ ॥ यत्र भूमिगृहे भान्ति स्पष्टमष्ट मृगारयः । भक्तिभाजामष्टकर्मगजान् हन्तुमिवोत्सुकाः ॥ ५७ ॥ श्रीस्तम्भतीर्थपूर्भुमिभामिनीभालभूषणम् । चत्यं चिन्तामणेर्विक्ष्य विस्मयः कस्य नामवत् ।। ५८ ॥ एती नितांतमतनु तनुतः प्रकाशं ।
यावत् स्वयं सुमनसां पथि पुष्पदन्तौ । श्रीस्तम्भतीर्थधरणीरमणीललामं
तावञ्चिरं जयति चैत्यमिदं मनोज्ञम् ।। ५९ ॥ श्रीलामविजयपण्डिततिलकः समाधि बुद्धिधनधुर्यः । लिखिना च सीनिविजयाधिधन गुवान्धवेन मुदा ॥ ६० ॥
वणिनी गुणाकीणां सदलकृतिचिभाग् । एमा प्रगस्तिरकीर्णा श्रीधरण सुशिल्पिना ।। ६१ ॥ श्रीकमलविजयकोविदा शिशुना विबुधेन हेमविजयेन । रचिता प्रशस्तिरेषा कनीव सदलकृति यति ॥ ६२ ।।