________________
∞
प्राचीन जैन लेख संग्रहे
श्री भीषजी कस्वकुलोदयाद्रिसूर्यप्रभः कामलदेविपुत्रः ॥ २१ ॥ श्री तीर्थयात्राजिनविम्बपूजापदप्रतिष्ठादिककर्मधुर्याः । सुपात्रदानेन पवित्रमात्राः
सर्वेदृशाः सत्पुरुषाः प्रसिद्धाः ॥ २२ ॥ श्रीरत्न सिंह राज्ये राज्यव्यापारभारधौरेयः । श्रीकर्मसिंहदक्षो मुख्यो व्यवहारिणां मध्ये ॥ २३ ॥ श्रीशत्रुञ्जयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ । तस्योद्धारकृते भावः कर्मराजस्य तदाऽभूत् ॥ २४ ॥ आगत्य गौर्जरे देशे विवेकेन नरायणे । वसन्ति विबुधालोकाः पुण्यश्लोका इवाद्भुताः ॥ २५ ॥ तत्रास्ति श्रीधराधीशः श्रीमद् वाहदरो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाययौ ॥ २६ ॥ राज्यव्यापारधौरेयः पानश्रीमान् मझादकः । तस्य गेहे महामंत्री रवाख्यो नरसिंहकः ॥ २७ ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धारः सप्तमस्तेन चक्रे शत्रुञ्जये गिरौ ॥ २८ ॥ श्रीपादलिप्त ललनासर शुद्धदेशे सद्वाद्यमंगलमनोहरगीतनादैः । श्रीकर्मराजसुधिया जलयात्रिकायां
चक्रे महोत्सववरः सुगुरूपदेशात् ॥ २९ ॥
चंचच्चंगमृदंग रंगरचनाभेरीन फेरीरवा
वीणा [वंश ] विशुद्धनालविभवा सांधर्मि [वात्सल्य] कम् ।