________________
प्राचीनजैनलेखसंग्रहे प्रिया व(*)वोदयसंज्ञितस्य ।। ३४ ॥ इति परिवारयुतश्चोज्जयंतशत्रुजयेप्वकृत यात्रा । निधिशरनरपति १६५९ संख्ये वर्षे हर्षेण नापाख्यः ॥३५॥ अर्बुदगिरिरा(*)णपुरे नारदपुर्यां च शिवपुरीदेशे । यात्रा युगपट्पदपदकला १६६४ मितेऽन्दे चकार पुनः ॥३६॥ श्रीविक्रमाकोदनु(?)तकंप
वर्षे १६६६ गते फा()ल्गुन शुक्लपक्षे। तो दंपती स्त्रीकुरुतः स्म तुर्य
व्रतं तृतीयादनि रूप्यदानैः ॥ ३७ ।। दानं च शीलं च तथोपकार
स्त्रयात्मकोयं शुभयोग आस्ते । नापाभिधा(*)ने व्यवहारिमुख्ये
यथाहि लोके गुरुपुष्यपूणा ३८ ॥ भुजाजिताया निजचारुसंपदो
न्यायोर्जितायाः फलमिष्टमिच्छता । वाणांगपशीतगु १६६५ संख्य(*)हायने
विधापितस्तेन हि मूलमंडपः ॥ ३९ ॥ चतुष्किके द्वे अपि पार्थयोयो
न पाभिधानेन विधापिते इमे । पित्रोर्यशः कीर्तिरुप इव स्वयोः
__ कर्ता द्वयं(*)तोडरसूत्रधारकः॥ ४० ॥ विविधवादिमतंगजकेसरी कपटपंजरभंगकृते करी । भवपयोधिसमुत्तरणे तरी प्रबलधैर्यहरेर्वसने दरी।। ४१॥ असमभाग्य(*)पयश्वयसागरः
स्वगुणरंजितनायकनागरः ।