________________
२१९
प्राचीन जैनलेखसंग्रह स्तिरस्कृतारिप्रतिमल्लदेवः ॥ ९ ॥ तस्यौरसस्समजनिष्ट बलिष्टबाहुः
प्रत्यर्थितापनकदर्थनपराष्टुः(*) । श्रीमल्लदेवनृपपट्टसहस्ररश्मिः __श्रीमानभूदुदयसिंहनृपः सरश्मिः ॥१०॥ कमधजकुलदीपः कांतिकुल्या नदीप
स्तनुजितमधुदीपः सौ(*)म्यता कौमुदीपः । नृपतिरुदयसिंहः स्वप्रतापास्तसिंहः
सितरदमुचुकुंदः सर्द्धनीत्या मुकुंदः ॥ ११ ॥ राज्ञां समेपामयमेव वृद्धा
वाच्यस्तद(*)न्यस्थ वृद्धराजः । यस्येति शाहिविरुदं स्म दया
दकब्बरो बब्बरवंशहंसः ॥ १२ ॥ तत्पन्नः कपपट्टशोभा
मवीभरत्संप्रति सूरसिंहः । यो(*) माषपेपं द्विपतः पिपेप
निर्मूलकापं कपितातितांतिः ।। १३ ॥ राज्यथियां भाजनमिद्धधामा
प्रतापमंदीकृतचण्डधामा । सपत्ननागावलिनाशसिंहः(*) ___पृथ्वीपती राजति मूरसिंहः ॥ १४ ॥ प्रतापतो विक्रयतश्च सूर्य
सिंहो गती व्योमवनं च भीती । अन्वर्थतो नाम जगाम सूर्य
सिंहति यः सर्वजन(*)प्रसिद्धं ॥ १५॥