________________
७६
प्राचीन जैनलेखसंग्रहे
आत्मगुणैः किरणैरिव सोमो रोमोमं सतां (# ) कुन् । उदगाद्गाधमध्यादुग्धोदधिवात्तस्मात् || ६ || एतस्मादजनिजिनावि[नाथभक्ति
विभ्राणः स्वमनसि शश्वदश्वरा[जः ।
तस्यासीsविततमा कुमारदेवी
देवी त्रिपुररिपोः कुमारमाता ॥ ७ ॥ तयोः प्रथमपुत्रोऽभून्मंत्री हृणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [च]]सवेन सः ॥ ८ ॥ पूर्व्वमंत्र सचिवः स कोविदै गण्यते स्म गुणवत्सु लुणिगः । यस्य निस्तुपपतेर्मनीपया
धिक्कृतेव विषणस्य श्रीरपि ॥ ९ ॥
श्रीमदेवः श्रि(*)तमहिदेवः तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यवनांगनासु
लुब्धा न बुद्धि: शमलव्धबुद्धेः ॥ १० ॥ विधाने भुवनच्छिद्रपिधाने विभिन्नसंघाने | सृष्टिकता नहि सृष्टः प्रतिमहो महदेव (स्य ॥ ११ ॥ नीलनीरदकदम्बकमुक्त श्वेतकेतुकिरणोद्धरणेन ।
मल्लदेवयशसा गलहस्तो हस्तिमदशनांशुषु दत्तः ॥ १२॥ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतद्दर्षैवर्षैः ।
श्रीवस्तु [पा]ल इति भावतलस्थितानि
दौस्थ्याक्षराणि सुकृती कृतिनां विपन् ॥ १३ ॥