________________
यौवनोल्लासः तृतीयः -श्रीक्रमः
इति मन्त्रं सकृदुच्चार्य, युगपद्वामपाणिभूतलाघातत्रय-करास्फोटत्रय - क्रूरदृष्टयवलोकनपूर्वं तालत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् । तालत्रयं नाम दक्षतर्जनीमध्यमाभ्यां अधोमुखाभ्यां वामकरतले सशब्दं उपर्युपरि त्रिरभिघातः ॥
न्यासजालविधिः
अथ नम इत्यङ्गुष्ठमन्त्रमुच्चारयन् अङ्कुशेन शिखां बद्धा, श्रीदेवीरूपं भावयन् आत्मानं स्वदेहे न्यासजालात्मकं वज्रकवचं विदधीत । न्यासाश्च
मातृकान्यासः, करशुद्धिन्यासः, आत्मरक्षान्यासः, चतुरासनन्यासः, बालाषडङ्गन्यासः, वशिन्यादिन्यासः, मूलविद्यावर्णन्यासः, षोढान्यासः, चक्र
न्यासः ||
तेषु विद्यावर्णन्यासः कादिहादिभेदेन द्विविधोऽपि तत्तदुपासकस्यैकैक एव । षोढाचक्रन्यासौ कृताकृतौ । करणे त्वभ्युदय एव । श्रीषोडश्युपासकस्य पञ्चविधा मूलवर्णन्यास इति विशेषः । न्यासानामितिकर्तव्यता न्यासप्रकरणे व्यक्तीभविष्यति ॥
पात्रासादनम् - सामान्यार्घ्यविधिः
स्वासनस्य द्वादशाङ्गुलमितात् प्रदेशात् परतो भुवि शुचिनि स्थले स्वस्य वामतो देव्याः पुरतो गन्धाक्षतकुसुमसमर्चितेन सप्तवारं त्रिवारं वा मूलमन्त्राभिमन्त्रितेन वर्धनीपात्रगतेन शुद्धेनाम्भसा बिन्दुत्रिकोणषट्कोणवृत्तचतुरश्रात्मकं मण्डलं मत्स्यमुद्रया निर्माय पुष्पैरभ्यर्च्य चतुरश्रस्याम्नीशासुरवायुकोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण—
ऐं ह्रीं श्रीं ऐं हृदयाय नमः । आग्नेये ।
क्लीं शिरसे स्वाहा | ईशान्ये । सौः शिखायै वषट् 1 नैर्ऋतौ ऐं कवचाय हुम् । वायव्ये ।
1
३
m m m
४५
३
३
क्लीं नेत्रत्रयाय वौषट् । मध्ये ।
1
सौः अस्त्राय फट् । प्रागादिचतुर्दिक्षु ॥