________________
*
*
नित्योत्सवः
भूतशुद्धिः ततो ऐं ह्रीं श्रीं मूलेन श्रीचक्रे पुष्पाञ्जलिं दत्वा, ३ क ए ई ल ह्रीं नमः इति त्रिकोणस्य स्वाग्रकोणं, ३ ह स क ह ल ह्रीं नमः इति ईशानकोणं, ३ स क ल ह्रीं नमः इति आग्नेयकोणं अभ्यर्च्य भूतशुद्धिं विदध्यात् । यथाश्वाससमीरं पिङ्गळया नाड्या अन्तराकृष्य ३ मूलशृङ्गाटकात् सुषुम्नापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा इति मन्त्रेण मूलाधारस्थितं जीवात्मानं सुषुम्नावर्त्मना ब्रह्मरन्ध्र नीत्वा परमशिवेनैकीभूतं भावयित्वा इडया वायुं रेचयेत् । एवमेवोत्तरत्र शोषणादिष्वपि प्रातिस्विकं .पूरकरेचने । ३ यं सङ्कोचशरीरं शोषय शोषय स्वाहेति 'निजशरीरं शोषितं विभाव्य, ३ रं सङ्कोचशरीरं दह दह पच पच स्वाहेति प्लुष्टं भस्मीकृतं च विभाव्य, ३ वं परमशिवामृतं वर्षय वर्षय स्वाहेति तद्भस्म सहस्रारेन्दुमण्डलविगळदमृतरसेन सिक्तं च विभाव्य, ३ लं शाम्भवशरीरं उत्पादयोत्पादय स्वाहेति तद्भस्मनो दिव्यशरीरमुत्पन्नं च विभाव्य, ३ हं सः सोऽइम्वतरावतर शिवपदात् जीवं सुषुम्नापथेन प्रविश मूलशृङ्गाटकमुल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोऽहं स्वाहेति परमशिवेनैकीकृतं जीवं पुनः सुषुम्नावर्त्मना मूलाधारे स्थापितं विचिन्तयेत् । सङ्कोचशरीरं नाम पाञ्चभौतिकं परिच्छिन्नमिदमेबाङ्गम् ॥ इति भूतशुद्धिः ॥
आत्मप्राणप्रतिष्ठा अथ आत्मप्राणप्रतिष्ठा अनुष्ठेया । तस्याश्च तन्त्रान्तरेषु विस्तरेऽपि सूत्रकारस्य सङ्कुचितप्रयोगप्रियत्वात् ज्ञानार्णवोक्त एव तत्प्रकारो ग्राह्यः । यथा-हृदि दक्षकरतलं निधाय ३ आं सोऽहमिति त्रिः पठेत् इति ॥
प्रत्यूहोत्सारणम् ततः प्राग्वत् विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा प्राणानायम्य, ऐं ह्रीं श्रीं-अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । 'सूक्ष्मशरीरं-अ, भ.