________________
यौवनोल्लासः तृतीयः-श्रीक्रमः
नत्वा श्रीभासुरानन्दनाथपादाम्बुजद्वयम् । युनक्त्युमानन्दनाथो यौवनोल्लासमद्भुतम् ॥ महात्रिपुरसुन्दर्या मतोऽत्र यजनक्रमः । कीर्त्यन्ते गणपत्यादिक्रमाः यदुपजीविनः ।। आद्याय श्रीभासुरानन्दनाथाचार्यायास्मद्गुरवे ह्युमानन्दनाथः । श्रेयोमूलं साधकानां तनोति यौवनोल्लासं श्रीक्रमोपक्रमेण ॥ इह सप्तप्रकरणान्याह्निकेन सपर्यया । होममुद्रान्यासजपनैमित्तिकसमर्चनैः ।। आह्निके श्रीगुरुध्यानं प्राणसंयमनं ततः । चिद्विमर्शो हृदा मूलावृत्ती रश्मिसरस्मृतिः ॥ स्नानं सन्ध्याविधानं च पूजाप्रकरणे पुनः । द्वारपूजाऽऽत्मनेपथ्यं आसनावस्थितिक्रमः ॥ दीपनाथसपर्या च श्रीचक्रपरिकल्पनम् । मन्दिरार्चा भूतशुद्धिः प्रत्यूहोत्सारणं ततः ॥ न्यासजालविधिः पात्रासादनं मातुरर्चनम् । मुद्राकृतिः षडङ्गार्चा नित्याश्रीगुरुपूजनम् ॥ नवावृतिसपर्या च श्रीदेवीपुनरर्चनम् । अथ कामकलाध्यानं सौभाग्यहृदयस्मृतिः ॥ कृताकृतत्वं होमस्य बलिदानविधिस्तथा । जपस्तोत्रे सुवासिन्याः पूजनं तत्त्वशोधनम् ॥