________________
नित्योत्सव:
चुळुकप्रमाणाः शतसङ्ख्याका वा । कदळीफलमल्पं यद्यखण्डितम्, पृथुचेद्यथारुचि खण्डितम् । अमीषां द्रव्याणां मधुक्षीरघृतसिक्तानां पृथक्पृथगाहुतयो होमसङ्ख्यापिण्डाष्टमभागमिताः ३५० लोकपाठक्रमेण भवन्ति । अष्टद्रव्यहोमात् प्रागावरणदेवतानां एकैकाहुतिः प्रधानदेवतायाश्च यादृशाहुतयः ताः आज्येनैव भवन्ति । तर्पणपूर्वाङ्गं तु चतुरावृत्तितर्पणवदेव ||
૩૪
7
इत्थं पुरश्चरणेन सिद्धमनुः स्वातन्त्र्येणोपास्तौ च श्रीक्रमोक्तेन क्रमेण नैमित्तिकार्चनपरः, काम्यापेक्षी चेत् श्यामाक्रमे वक्ष्यमाणेन तत्तत्कामानुगुणेन द्रव्येण इष्ट्वा सिद्धसङ्कल्पः सुखी विहरेत् ॥ इति शिवम् ॥
इति श्रीभासुरानन्दनाथचरणारविन्द मिळिन्दायमानमानसेन उमानन्दनाथेन निर्मिते कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे महागणपतिक्रमनिरूपणं नाम तरुणासो द्वितीयः समाप्तः
1 यावदाहु
९-११.