________________
तरुणोलासो द्वितीयः - गणपतिक्रमः
वामTधः करतो दक्षाधः करान्तेषु पुष्करे । परिष्कृतं मातुलुङ्गगदापुण्ड्रेक्षुकार्मुकैः ॥ शूलेन 'शङ्खचक्राभ्यां पाशोत्पलयुगेन च । शालिमञ्जरिकास्वीयदन्ताञ्चलमणीघटैः :: 11 स्रवन्मदं च सानन्दं श्रीश्रीपत्यादिसंवृतम् । अशेषविघ्नविध्वंसनिनं विघ्नेश्वरं स्मरेत् ॥
२३
अर्ध्यसंस्कारः
अथ तं मानसैः पञ्चोपचारैः अभ्यर्च्य श्रीक्रमे वक्ष्यमाणेन क्रमेण सामान्यविशेषार्ध्वे आंसादयेत् । तत्र चोभयोरर्घ्ययोरप्युक्तं षडङ्गमाधारस्थापनादिषु क्रमेण—
श्रीं ह्रीं क्लीं अं अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधाराय नमः || डं सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्त्राय नमः || मं सोममण्डलाय षोडशकलाऽऽत्मने अर्ध्यामृताय नमः ॥
३
३
इत्येवं मन्त्राः, गणपतिगायत्र्योक्तया
गुणानां त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नाम॑प॒मश्र॑वस्तमम् । ज्येष्ठराज॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑ः शृ॒ण्वन्न॒तिभिः॑ सीद॒ साद॑नम् ॥
इत्यनया ऋचा चाभिमन्त्रणम्, चतुर्नवतिमन्त्राद्यभिमन्त्रणाभावश्चेति विशेष: । अथ सामान्यार्घ्यजलबिन्दुभिः आत्मानं पूजोपकरणानि च सम्प्रोक्ष्य विशेषार्ध्यबिन्दुभिः स्वशिरसि गुरुपादुकां त्रिरिष्ट्वा सपर्यासामग्रीं पावयित्वा ||
पीठे प्राणप्रतिष्ठा
पुरतो रक्तचन्दनादिभिः निर्मिते पीठे कलधौतादिविरचितां महागणपतिप्रतिमां वा ध्यानोक्तरूपां चतुरश्राष्टदळषडर त्रिकोणात्मकं सिन्दूरादिना लिखितं लेखितं वा यन्त्रं, धातुमयं वा निवेश्य --
1 पद्मच-अ.