________________
२२
ताळत्रयं नाम दक्षतर्जनीमध्यमाभ्यां अधोमुखाभ्यां वामकरतले सशब्दमुपर्युपरि त्रिरभिघातः ॥
शिखाबन्धनादि मातृकान्यासान्तम्
ततो नम इत्यङ्गुष्ठमन्त्रमुच्चार्य 'अंकुशेन शिखां बद्धा श्रीक्रमे वक्ष्यमाणेन प्रकारेण भूतशुद्धिमात्मनः प्राणप्रतिष्ठां च विधाय विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा मूलेन प्राणानायम्य तेजोरूपदेवानन्यं भावयन् आत्मानं ऐं ह्नः अस्त्राय फट् इति मन्त्रेण मुहुरावृत्तेन अङ्गुष्ठादिकरतलान्तं कूर्परयोश्च विन्यस्य देहे च व्यापकं कृत्वा श्रीक्रमे वक्ष्यमाणं मातृकान्यासं विदध्यात् । तत्र च श्रीं ह्रीं क्लीं इति त्रिबीजं प्रथमं योजयेत् इति विशेषः ॥
ततः
नित्योत्सवः
श्रीं ह्रीं क्लीं ॐ गां अंगुष्ठहृदयाय नमः ॥
३
श्रीं गीं तर्जनीशिरसे स्वाहा ॥
३
वषट् ॥
३
m m
ह्रीं गूं मध्यमाशिखायै
क्लीं मैं अनामिकाकवचाय हुम् ॥
ग्ौं गौं कनिष्ठिकानेत्रत्रयाय वौषट् ||
गं गः करतलकरपृष्ठास्त्राय फट् ॥
इति षडङ्गमन्त्रानङ्गुष्ठादिषु हृदयादिषु च न्यस्य मूलेन त्रिर्व्यापकं कुर्यात् ॥
३
३
षडङ्गन्यासः
ततो ध्यानम् --
ध्यानम्
ततो हृदब्जे शोणाङ्गं वामोत्सङ्गविभूषया ।
सिद्धलक्ष्म्या समाश्लिष्टपार्श्वमर्धेन्दुशेखरम् ॥
" अंगुष्ठेन ' इत्यपि वा स्यात् - अंगुष्ठमन्त्रेण 'नमः' इत्यनेनेत्यर्थः ( कल्पसूत्रे ८ खण्डे १० सूत्रं दर्शनीयम् ) - (संपादकः).