________________
२२४
नित्योत्सवः
अत्राधीते इत्यध्ययनविधेः अर्थज्ञानभाव्यकतया अस्य निबन्धस्य खण्डद शकार्थावग
मकत्वात् इति शिवम् ॥
ग्रन्थकर्तृप्रशस्तिः
नित्योत्सवो निबद्धोऽयं यथाधीविभवं मया । भ्रमप्रमादस्खलितं समादधतु तद्विदः ॥ अनेन वागध्वरेण समाराध्या कथंचन । प्रीयतां देशिकात्मा मे देवी श्रीललिताम्बिका ॥ विश्वाश्वर्यतपोमयविश्वामित्रर्षिगोत्रतिलकेन । श्रीबालकृष्णविद्वत्सुतेन लक्ष्म्यम्बयोपलायेन || श्रुतपेटवोपनाम्ना चोळाधिपभोसलेन्दुमान्येन । नाटककाव्यादिकृता महितमहाराष्ट्रजातिहीरेण ॥ त्रय्यन्ततत्त्वशीलनदळित' जगच्छत्र [च्छास्त्र] जालमोहेन भारत्युपाख्यभास्करम खिदेशिकलब्धदैक्षनाम्नायम् ॥ आम्नायतन्त्रजालालोकपरेणार्यसम्प्रदायजुषा । ललितापदाब्जरोलम्बेन जगन्नाथपण्डितवरेण । कल्यब्देषु रसार्णवकरिवेदमितेष्विह व्यतीतेषु । नव्यः क्रोधनशरदि न्यबन्धि नित्योत्सवः शिवप्रीत्यै 11
इति श्रीमद्भासुरानन्दनाथचरणारविन्दमिळिन्दायमानमानसेन उमानन्दनाथेन निर्मिते अभिनवे कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे साधारणऋक्रमनिरूपणो नाम अनवस्थोल्लासः सप्तमः समाप्तिमगमत् ॥
इति नित्योत्सवनिबन्धः समाप्तः
श्रीगुरुचरणारविन्दार्पणमस्तु
जगच्छक
ब३ ; जगच्छक्ति – अ१ ; जगज्जाकृच्छमूहेन – भ.