________________
स्कान्दे
तस्य माला भगवतः परमप्रीतिकारिणी । शुष्का पर्युषिता वाऽपि न दुष्टा भवति कचित् ॥
तस्येत्युपक्रमात् दमनकस्य । भगवत इत्युपलक्षणं भगवत्या अपि ॥
पर्युषितमात्रस्यापि प्राह्यत्वम्
प्रयोगपारिजाते
अनवस्थोल्लासः सप्तमः साधारणक्रमः
यद्वा पर्युषितैश्चापि पुष्पाद्यैरविकारिभिः ।
गन्धोदकेन चैतानि त्रिः प्रोक्ष्यैव प्रपूजयेत् ॥ इति ॥ अथवा बिल्वतुळसीपत्रैर्वकुळपुष्पकैः ।
शुष्कैरपि पूजयेत् .
॥ इति ॥
सर्वस्यैतस्यापवादः
ग्रन्थान्तरे—
देवीपूजा सदा कार्या जलजैः स्थलजैरपि । विहितैर्वा निषिद्धैर्वा भक्तियुक्तेन चेतसा सर्वपुष्पैः सदा पूजा विहिताविहितैरपि । कर्तव्या सर्वदेवानां भक्तिरेवात्र कारणम् ॥ इति ॥
सूत्रकृता
इतोऽपि विस्तारो ऽन्यत्र द्रष्टव्यः इति दिक् ॥
२२३
निबन्धाध्ययनमहिमा
एतन्निबन्धाध्ययनेनापि सर्वदेवतोपास्तिफलं भवति । तदुक्तं भगवता
य इमां दशखण्ड महोपनिषदं महात्रैपुर सिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति । यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इती श्रूय इत्युपनिषदिति शिवम् ॥ इति ॥
1