________________
आरम्भोल्लासः प्रथमः -- -दीक्षाक्रमः
रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत् किल । सौन्दर्यमाप्नोति ज्ञानं स्यात्तु बृहस्पतौ ॥ शुक्रे सौभाग्यमाति. ॥ इति ॥
द्वितीयायां भवेत् ज्ञानं तृतीयायां भवेच्छुचिः । पञ्चम्यां बुद्धिवृद्धिः स्यात् सौख्यं स्यात्सप्तमी दिने | दशम्यां राजसौभाग्यं एकादश्यां शुचिर्भवेत् । द्वादश्यां सर्वसिद्धिः म्यात् पूर्णिमा सर्वसिद्धिदा ॥ इति ॥ अस्वाध्यायं विवर्जयेत् . ॥ इति च ॥
अस्वाध्यायं सन्ध्यागर्जितनिर्घोषभूकम्पादिनिमित्तकानध्यायदिवसानित्यर्थः ।
अश्विन्यां सुखमाप्नोति रोहिण्यां वाक्पतिर्भवेत् । पुनर्वसौ धनाढ्यः स्यात् पुष्ये शत्रुविनाशनम् ॥ मघायां दुःखहानिः स्याद्रूपदा पूर्वफल्गुनी । ज्ञानं चोत्तरफल्गुन्यां हस्तायां च बली भवेत् ॥ चित्रायां ज्ञानसिद्धिः स्यात् स्वात्यां शत्रुविनाशनम् । अनूराधा बुद्धिवृद्ध्यै 'कीत्यै स्यातां ततः परे ॥ " पूर्वाषाढोत्तराषाढे 'सर्वसम्पत्तिदायिके । बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् ॥ सौख्यं चोत्तरभाद्रायां रेवत्यां कीर्त्तिवर्धनम् ॥ इति च ॥
योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनः शुभः ।
सुकर्मा च धृतिर्बुद्धिर्भुवः सिद्धिश्व हर्षणः ||
वरीयांश्च शिवः सिद्धो ब्रह्मा चैन्द्रोऽप्यमी शुभाः ॥ इति च ॥ बवादिवणिजान्तानि करणानि शुभाप्तये || इति च ॥
वैशम्पायनसंहितायां
मन्त्राद्यारम्भणं मेषे धनधान्यप्रदं भवेत् ।
कर्क सर्वसिद्धिः स्यात् कन्या लक्ष्मीप्रदा नृणाम् ||
1
मूलं सर्वसमृद्धिकृत् - अ. " एतदर्ध अ. कोश एव दृश्यते.
अ भवेतां कीर्तिदायिके -अ.