________________
नित्योत्सवः
येषु दीक्षा-गणेश-श्री-श्यामा-क्रोडी-परा-क्रमाः । सामान्यश्च क्रमोऽन्येषां क्रमेण प्रतिपादिताः ॥ प्रतिपाद्येषु मुख्यत्वमङ्गताऽन्यच्च यद्भवेत् । तत्सर्व श्रीगुरुप्रोक्ते रत्नालोकेऽधिगम्यताम् ॥ न्यायोपसंहृतैरङ्गैः प्रयुञ्जानस्य मे क्रमान् । भ्रम प्रमादात् मुखलितं समादधतु तद्विदः ॥ सूत्रसंसूचितानुक्ताविरुद्धाङ्गेतिकार्यता । तन्त्रान्तरात् सम्प्रदायादप्युक्तेह क्वचित् क्वचित् ॥ इह क्रमाणां सर्वेषां श्रीक्रमः प्रकृतिमतः । अतिदिश्य तमन्यत्र विशेषस्तु निरूप्यते ॥ क्रमान्तरेषु चाङ्गानां विज्ञेया श्रीक्रमेऽपि च । पौर्वापर्यभिदा तत्तत्खण्डमूत्रक्रमानुगा ॥ श्रेयोऽर्थिनः साधकस्य साङ्गे श्रीसुन्दरीक्रमे । आवश्यकत्वात् प्रथमं दीक्षाविधिरुदीर्यते ॥
दीक्षाकालनिर्णयः तस्य च कालनिर्णयो मन्थानभैरवतन्त्रे --
वैशाखे सिद्धिदा दीक्षा श्रावणे वृद्धिदा नृणाम् । आश्विने सर्वसिद्धिः म्यात कार्तिके ज्ञानवृद्धिदा ॥ शुभदा मार्गशीर्षे च माघे म्वर्णफलप्रदा । फाल्गुने सर्वसिद्धिः म्यादन्येऽनिष्टफलप्रदाः ॥
इति । सारसङ्घहे.' • मलमासं विवर्जयेत्' इत्युक्तम् । इदं क्षयमासम्याप्युपलक्षणम् । तत्रैव
प्रमादस्ख-भ. समयन्त्विह माधवः-अ, भ. ३ अयं श्लोकः अ, अ, कोशयोग्व दृश्यते.