________________
१८६
नित्योत्सवः तरति विपदो घोरा दूरात्परिहियते भय
स्खलितमतिभिर्भूतप्रेतैः स्वयं वियते श्रिया । क्षपयति रिपूनीष्टे वाचां रणे लभते जयं
वशयति जगत्सर्वं वाराहि यस्त्वयि भक्तिमान् ॥ २ ॥ स्तिमितगतयस्सीदद्वाचः परिच्युतहेतयः .
क्षुभितहृदयास्सद्यो नश्यदृशो गळितौजसः । भयपरवशा भग्नोत्साहाः पराहतपौरुषाः
भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः ॥ ३ ॥ किसलयमृदुर्हस्तः क्लिश्येत कन्तुकलीलया
भगवति महाभारः क्रीडासरोरुहमेव ते । तदपि मुसलं धत्से 'हस्ते हलं समयगृहां
हरसि च तदाघातैः प्राणानहो तव साहसम् ॥ ४ ॥ जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयोः
मृदुभुजलतामन्दाक्षेपप्रणर्तितचामरे । सततमुदिते गुह्याचारगुहां रुधिरासवै
रुपशमयतां शत्रून् सर्वानुभे मम दैवते ॥ ५ ॥ हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां __ रुधिरमदिरामत्तः प्राणोपहारबलिप्रियः । अविरतचटत्कुर्वदंष्ट्रास्थिकोटिरटन्मुखो __ भगवति स ते चण्डोच्चण्डः सदा पुरतः स्थितः ॥ ६ ॥ क्षुभितमकरैर्वीचीहस्तोपरुद्धपरस्परै
श्चतुरुदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः । जननि कथमुत्तिष्ठेत् पाताळसर्पबिलादिला
तव तु कुटिले दंष्ट्राकोटी न चेदवलम्बनम् ॥ ७ ॥ तमसि बहुळे शून्याटव्यां पिशाचनिशाचर
प्रमथकलहे चोरव्याघ्रोरगद्विपसङ्कटे । 1 धत्से–भ, ब२, ब३.