________________
तदन्तोल्लासः पञ्चमः-दण्डिनीक्रमः
१८५ नमः इति गुह्ये, फट् शक्तये नमः इति पादयोः, ठः ठः ठः ठः कीलकाय नमः इति नाभौ, मम सर्वाभीष्टसिद्धयर्थे विनियोगाय नमः इति करसम्पुटे च न्यस्य, मूलेन त्रिः व्यापकं कृत्वा, अन्धे अन्धिनि नमः इत्यादिभिः पञ्चभिः मन्त्रैः पूर्वोक्तैः अङ्गुष्ठादिकनिष्ठान्तं, २ ऐं नमो भगवति वार्ताळि वार्ताळि हृदयाय नमः इत्यादिभिश्च हृदयादिषु न्यासं विधाय, उक्तप्रकारेण ध्यात्वा, मनसा २ श्रीवाराबै लं पृथिव्यात्मकं गन्धं कल्पयामि नमः, २ श्रीवारायै हं आकाशात्मकं पुष्पं कल्पयामि नमः, २ श्रीवाराटं यं वाय्वात्मकं धूपं कल्पयामि नमः, २ श्रीवारायै रं अम्यात्मकं दीपं कल्पयामि नमः, २ श्रीवारायै वं अमृतात्मकं नैवेद्यं कल्पयामि नमः, नैवेद्याङ्गत्वेन च २ श्रीवाराटं सं सर्वात्मकं ताम्बूलं कल्पयामि नमः, इति पञ्चोपचारानाचर्य, विघ्नदेव्यङ्गोपाङ्गप्रत्यङ्गसहितं मूलमन्त्रमष्टोत्तरशतवारान् यथाशक्ति वा श्रीक्रमोक्तेन विधिना जपेत् ॥
स्तं स्तम्भिन्यै नमः इति वाराह्या विनदेवीमन्त्रः । एतं जपारम्भे त्रिवारं जपेत् । मूलमन्त्रश्च न्यासोक्ताष्टखण्डसमष्टिरूपः । लं वाराही लूं उन्मत्तभैरवीपादुकाभ्यां नमः इति वाराह्यङ्गं लघुवाराही। ॐ ह्रीं नमो वाराहि घोरे स्वप्नं ठः ठः स्वाहा इति तदुपाङ्गं स्वमवाराही । ऐं नमो भगवति महामाये पशुजनमनश्चक्षुस्तिरस्करणं कुरु कुरु हुं फट् स्वाहा इति तत्प्रत्यङ्गं तिरस्करिणी । एतान् त्रीन् मन्त्रान् मूलजपान्ते तद्दशांशं जपेत् । पुनः न्यासध्यानादि कृत्वा जपं निवेद्य स्तुवीत ॥
वाराहीस्तोत्रम् यथा--- कुवलयनिभा कौशेया|रुका मकुटोज्ज्वला
हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी । कपिलनयना मध्ये क्षामा कठोरघनस्तनी ___जयति जगतां मातः सा ते वराहमुखी तनुः ॥ १ ॥