________________
तदन्तोल्लासः पञ्चमः-दण्डिनीक्रमः
मूर्तिकल्पनम् तत्र २ लू षा ई वराहमूर्तये ठः ठः ठः ठः हुं फट् ग्लौं ऐं इति मूर्तिकरण्या विद्यया चक्रे देव्या मूर्ति सङ्कल्प्य,
देवीध्यानम् हृदि देवीं ध्यायेत् । यथा
पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम् । कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ॥ दक्षोलतोरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत् ।
शङ्ख खेटहलवरान् करैर्दधानां स्मरामि वार्ताळीम् ॥ अरिः सुदर्शनम् ।।
देव्याः षोडशोपचारपूजा अथ वक्ष्यमाणेन प्रकारेण देव्यै मनसा पञ्चोपचारानर्पयित्वा भक्तानुग्रहात्तेजोरूपेण परिणतां ब्रह्मरन्धं प्राप्य वहन्नासापुटद्वारा निर्गतां कुसुमगर्भिते निजाञ्जलौ सन्निहितां तां मूर्ती मूलविद्यया आवाह्य आवाहिता भवेत्यादिरीत्या तत्तन्मुद्राप्रदर्शनपूर्वक आवाहन-संस्थापन-सन्निधापन-सन्निरोधन-सम्मुखीकरण-अवकुण्ठनानि विधाय वन्दनधेनुयोनिमुद्राश्च प्रदर्शयेत् । मुद्राप्रकारस्तु श्रीप्रकरणे उक्तोऽनुसन्धेयः । ततः-ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि हृदयाय नमः इत्यादिकान् प्रागुक्तान् षडंगमन्त्रान् २ अन्धे अन्धिनि नमः इत्यादिकान् पंचांगमन्त्रांश्च न्यासोक्तभङ्गया देव्याः तत्तदङ्गे कुसुमेन विन्यस्य, ऐं ग्लौं वारा? पाद्यं कल्पयामि नमः इत्यादिरीत्या देव्यै पाद्यार्थ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजनछत्रचामरयुगळदर्पणनैवेद्य - पानीयताम्बूलाख्यान् षोडशोपचारान् कृत्वा, नैवेद्याङ्गत्वेन पूर्वोत्तरापोशनकरप्रक्षाळनगण्डूषाचमनीयानि च प्रदद्यात् । नैवेद्ये त्रिकोणवृत्तचतुरश्रमण्डलकरणम् , मूलेन प्रोक्षणम् , वं इति धेनुमुद्रया चामृतीकरणम् , मूलेन सप्तवारमभिमन्त्रणम् , प्राणादिमुद्राप्रदर्शनं च विधेयम् ॥