________________
१७८
नित्योत्सवः
यन्तप्राणप्रतिष्ठा अथ व्यापकत्रयं मूलेन कृत्वा स्वपुरतः श्वेतपटपट्टदुकूलान्यतमे लिखिते लेखिते वा सुवर्णरजतताम्रचन्दनपीठादौ लिखिते उत्कीर्णे वा दृष्टिमनोहरे भूपुरत्रयसहस्रपत्रशतपत्राष्टपत्रषडरपञ्चारत्र्यश्रबिन्दुमये चक्रे कुसुमाञ्जलिं विकीर्य
ऐं ग्लौं वार्ताळियन्त्रस्य प्राणाः इह प्राणाः, ऐं ग्लौं वार्ताळियन्त्रस्य जीव इह स्थितः, ऐं ग्लौं वार्ताळियन्त्रस्य सर्वेन्द्रियाणि, ऐं ग्लौं वार्ताळि
यन्त्रस्य वाङ्मनःप्राणाः इहायान्तु स्वाहा ॥ इति यन्त्रप्राणप्रतिष्ठां विदध्यात् ॥
पीठपूजा ऐं ग्लौं स्वर्णप्राकाराय नमः, सुराब्धये, वराहद्वीपाय, वराहपीठाय, आं आधारशक्तये, कुं कूर्माय, कं कन्दाय, अं अनन्तनाळाय नमः ॥ इति पीठस्य मध्ये ॥
ऐं ग्लौं – धर्माय नमः, ऋ ज्ञानाय, लं वैराग्याय, लं ऐश्वर्याय नमः ॥ इति तस्य आग्नेयादिदिक्षु ॥
ऐं ग्लौं अधर्माय नमः, ऊँ अज्ञानाय, लं अवैराग्याय, लं अनैश्वर्याय नमः ॥ इति प्रागाद्यासु दिक्षु चाभ्यर्च्य ॥
ऐं ग्लौं त्र्यरपञ्चारषडरदळाष्टकशतपत्रसहस्रारपद्मासनाय नमः इति चक्रमनुना चक्रमिष्ट्वा ॥
ऐं ग्लौं वह्निमण्डलाय नमः, सूर्यमण्डलाय, सोममण्डलाय, सं सत्वाय, रं रजसे, तं तमसे, आं आत्मने, अं अन्तरात्मने, पं परमात्मने, ह्रीं ज्ञानात्मने नमः ॥ इति च तत्रैव वरिवस्येत् ॥
स्वर्णप्राकाराय नमः इत्याद्याः ह्रीं ज्ञानात्मने नमः इत्यन्ताः एते , सप्तविंशतिः पीठमनवो ज्ञेयाः ॥
आसनपूजा ततः २ हौं प्रेतपद्मासनाय सदाशिवाय नमः इति पुष्पैः बिन्दौ देव्यासनमभिपूज्य,