________________
१५०
नित्योत्सव:
चक्रदेवीपूजा
ऐं क्लीं सौः आधारशक्तिकमलासनाय नमः इति पीठं पुष्पैरभ्यर्च्य बिन्दुमध्ये ३ श्रीमातङ्गीश्वरीमूर्तये नमः इति देव्या मूर्ति भावयित्वा, हृदि वक्ष्यमाणरूपां देवीं सञ्चित्य ३ श्रीमातङ्गीश्वर्यै लं पृथिव्यात्मकं गन्धं कल्पयामि नम इत्यादिताम्बूलान्तं मानसोपचारैरभ्यर्च्य, तां तेजोरूपेण परिणतां ब्रह्मरन्धं प्रापय्य वहन्नासापुटद्वारा कृतविनिर्गमां कुसुमगर्भिते अञ्जलौ सन्निहितां देवीं ३ श्रीमातङ्गीश्वरि अमृतचैतन्यमावाहयामीति चक्रे भावितायां मूर्त्या आवाह्य मूलान्ते श्रीमातङ्गीश्वरि आवाहिता भव इत्यादिरीत्या आवाहन - संस्थापन -संनिधापन- संनिरोधन-संमुखीकरणावकुण्ठनानि तत्तन्मुद्राप्रदर्शनपूर्वकं विधाय, वन्दनधेनुयोनिमुद्राश्च प्रदर्शयेत् । तत्प्रकारश्च श्रीक्रमतो ज्ञातव्यः । ततः ऐं क्लीं सौः श्रीमातङ्गीश्वर्यै पाद्यं कल्पयामि नम इत्यादिभङ्गया पाद्यार्थ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजनछत्र चामरयुगलदर्पणनैवेद्यपानीयता - म्बूलान्तान् षोडशोपचारान् परिकल्पयेत् । नैवेद्याङ्गत्वेन पूर्वोत्तरापोशनकरप्रक्षालनगण्डूषाचमनीयानि च दत्वा ताम्बूलं समर्पयेत् । नैवेद्ये त्रिकोणवृत्तचतुरश्रमण्डलकरणम् । मूलमन्त्रेण प्रोक्षणम् । वमित्यमृतबीजेनाभिमन्त्रणपूर्व धेनुमुद्रया अमृतीकरणम् । मूलेन सप्तवारमभिमन्त्रणं प्राणादिमुद्राप्रदर्शनं च कार्यम् । अथ मूलमन्त्रान्ते श्रीमातङ्गीश्वरीश्रीपादुकां पूजयामीति वामकरतत्त्वमुद्रासन्दष्टद्वितीयशकलगृहीतक्षीरबिन्दुसहसमर्पितैः दक्षकरोपात्तैः कुसुमैः देवीं त्रिस्सन्तर्प्य देव्या अग्नीशासुरवायव्यभागेषु मौलौ प्रागादिदिक्षु च प्रागुक्तषडङ्गमन्त्रान्ते क्रमेण
ऐं क्लीं सौः
३
ः हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः || शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः ॥ कवचाय हुं कवचशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः ॥ नेत्रत्रयाय वौषट् नेत्रशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः || अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि तर्पयापि नमः || इति लयाङ्गत्वेन अङ्गदेवता आराध्य ||
३
३