________________
प्रौढोल्लास : चतुर्थ:- श्यामाक्रमः
यत्रोद्धारः
अथ चन्दनपङ्कप्रकृतिके मण्डल क्षीरमिश्रितेन सिन्दूरादिना बिन्दुत्रिकोणपञ्चकोणाष्टदलषोडशदलाष्टपत्रचतुष्पत्रचतुरश्रात्मकं चक्रं विलिख्य विलेख्य वा सुवर्णरजतताम्रस्फटिकमरकतरत्नाद्युत्कीर्ण वा तत्समास्तीर्णपट्टवसने श्रीखण्डरक्तचन्दनादिनिर्मिते पीठे निवेश्य यन्त्रप्राणप्रतिष्ठां कुर्यात् । यथा
ऐं क्लीं सौः श्यामायन्त्रस्य प्राणा इह प्राणाः,
३ श्यामायन्त्रस्य जीव इह स्थितः,
३
श्यामायन्त्रस्य सर्वेन्द्रियाणि,
श्यामायन्त्रस्य वाङ्मनः प्राणाः इहायान्तु स्वाहा ॥
૧૪૧
इति मन्त्रेण लिखितयन्त्रप्राणप्रतिष्ठां विदध्यात् । सुवर्णादिकृतस्य यन्त्रस्य तु प्राणप्रतिष्ठा श्रीक्रमोक्ता अत्राप्यनुसन्धेया । अत्र देवतानामाद्यूहस्त्वावश्यक एव । एवं देवताऽन्तरक्रमेष्वपि । ततो मूलेन चक्रे पुष्पाञ्जलिं विकीर्य ॥
1
अर्घ्यशोधनम्
श्रीक्रमोक्तक्रमेण सामान्यविशेषा आसादयेत् । अत्र चोभयोरप्यर्घ्ययोः प्रवेशरीत्या अन्तरन्तश्चतुरश्रादिबिन्द्वन्तमण्डलकरणम् ॥
ऐं क्लीं सौः अं आत्मतत्त्वाय आधारशक्तये वौषट् इत्याधारस्थापनम् ॥ उं विद्यातत्त्वाय पद्मासनाय वौषट् इति पात्रनिधानम् ॥ ३ मं शिवतत्त्वाय सोममण्डलाय नमः इति शुद्धजलापूरणमेकत्र ॥
३
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् । आपूरितं महापात्रे पीयूषरसमवह ||
इति क्षीरपूरणमन्यत्र । उक्तं षडङ्ग, मूलेन दशधा अभिमन्त्रणम्, चतुर्णवतिमन्त्राभिमन्त्रणाभावश्च विशेषः । ततो विशेषार्ध्यविन्दुभिः सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥